पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२२ काव्यसाला। तदेकः कीचकारातिस्तावन्न ज्ञायते क्वचित् ।।. बल्लवस्त्वयमस्त्येव पापस्तद्वन्धुघातकः ॥ १९० ॥ सैन्यैः समस्तैरप्यद्य न चेदेन हनिष्यसि । नूनमात्मानमुद्बध्य ततस्त्यक्ष्यामि जीवितम् ॥ १९१ ।। राजाथ सान्त्वयन्वाक्यैः कोमलैः कोमलैः प्रियाम् । पाणिनोदश्रुणी नेत्रे पुंस(प्रोन्छ)यन्निदमभ्यधात् ॥ १९२ । देवि दुर्नयमप्युच्चैस्त्वद्दाक्षिण्यादहं सहे । बन्धूनां ते न खल्वन्ये सहन्ते भुजशालिनः ॥ १९३ ॥ ब्रूषे तथापि यत्किचित्तन्मृगाक्षि करोम्यहम् । बल्लवोऽयं परं सर्वं सैन्यं हन्यात् खलीकृतः ॥ १९४ ॥ तस्यान्यस्तु वधोपायः संप्रत्यस्त्येव भामिनि । बुद्ध्यैव हि निहन्यन्ते दुर्जयाः परिपन्थिनः ॥ १९५ ॥ आगतो धार्तराष्ट्रस्य राज्ञो मल्लमतल्लिका । वृषकपरनामास्ति पुरेऽसिन्हस्तिनापुरात् ॥ १९६ ॥ जितानेकाहवः सर्वान्स च मल्लानधिक्षिपन् । नाखर्वभुजगर्वेण बल्लवेन सहिष्यते ॥ १९७ ॥ ततः शश्वत्कृताभ्यासः कदाचिदकृतश्रमम् । स एवामुं दुरात्मानं निहनिष्यति बल्लवम् ॥ १९८ ।। इति पृथ्वीपतिः प्रेम्णा मृदुभिर्मदुभिः पदैः । सान्त्वयित्वा शनैः प्रैषीदन्तरन्तःपुरं प्रियाम् ॥ १९९ ॥ मल्लवर्गतिरस्कारकारणं दृषकपरम् । बल्लवोऽन्येद्युराह्वास्त नियोद्धुं नृपतेः पुरः ॥ २०० ॥ ततोऽक्षवाटमुक्षेशवलक्षसिकवाचितम् । भूपतिः कारयांचके तन्नियुद्धकुतूहली ॥२०१॥ इमं च परितो मचान्सुरेन्द्रसदनोपमान । धराधीशोऽधिरोहाय राजन्यानामकारयत् ॥ २०२ ॥