पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४२१ इत्यस्याः कृपणां वाणीमाकर्ण्य पवनात्मजः। क्रोधाद्दूरोच्छलत्फालं धावति स महानसात् ॥ १७७ ।। सोऽब्रवीत्तान्किमेतां भो बलादाकृष्यथ स्त्रियम् । अस्यां कुत्रापि किं नाम कश्चिदस्त्येव न प्रभुः ॥ १७८ ॥ तेऽप्यूचुर्बल्लवैतस्य मृत्यवे सोदरस्य नः । इयमेवाभवत्कोऽपि हन्ता तु ज्ञायते नहि ॥ १७९ ॥ यं निहत्य बलाद्वैरमात्मनः शमयामहे । चितामध्ये निधास्यामस्तदिमामेव पुंश्चलीम् ।। १८० ॥ भीमोऽभ्यधायघादेवमन्यायं वः सहोदरः। रिरंसुः परवामाक्षीं तत्फलं चाप्यवाप्तवान् ।। १८१॥ किं नामाबिभ्यतो यूयं स्त्रीहत्यापातकादपि । द्वैतीयीकां कुरुध्वेऽमुं लप्स्यध्वेऽस्य न किं फलम् ॥ १८२ ॥ ज्ञातेययन्त्रितो वश्चेन्नृपोऽन्याय सहिष्यते । नोदेष्यति शिरःशूलं किमन्यस्यापि कस्यचित् ।। १८३ ।। तेऽथाभ्यधुः क्रुधा शक्तिर्यस्यास्ति भुजदण्डयोः । इमामवतु सोऽस्माभिः क्षिप्यमाणां चितानले ॥ १८४ ॥ ततस्तान्निकटं भीमः कमप्युत्पाट्य शाखिनम् । कीचकस्यावधीद्वन्धूछतमप्येकहेलया ॥ १८५ ॥ बल्लवेन हताः पेतुः मुदेष्णाबन्धवो मुवि । जघ्निरे साधु दुर्वृत्ता इत्युदस्थात्तु लोकवाक् ॥ १८६ ।। स्वस्थानं मालिनीं प्रेष्य हतारातिमतङ्गजः । गुहामिव हरिभीमो ययौ निर्भीर्महानसम् ॥ १८७ ।। ततो बन्धुवधक्रोधस्फुरदोष्ठभयंकरा । सुदेष्णा भूपमभ्येत्य बभाषे साश्रुलोचना ॥ १८८ ॥ आर्यपुत्र तवायं मे प्रसादोऽपि विडम्बना । हन्यन्ते बान्धवा यस्याः पश्य कर्मकरैरपि ॥ १८९ ॥