पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२० काव्यमाला। इत्यालपन्तमायान्ते तमभ्येत्य वृकोदरः । सप्रेम च तथालिङ्गाद्यथासोऽगात्परासुताम् ॥ १६४ ॥ नाट्यौकसो बहिस्तस्मान्मारुतिः कीचकं भुवि । मांसपिण्डीभवद्देहं गवाक्षेण ततोऽक्षिपत् ॥ १६५ ।। मरुत्सुतः कृतात्मीयवैरिनिर्यातनस्ततः । मेदुरानन्दमागत्य खपिति स्म महानसे ॥ १६६ ॥ तथाभूतं च लोकेभ्यः प्रातर्विज्ञाय कीचकम् । शतं शोकोर्मिविवशास्तस्याधावन्त बान्धवाः ॥ १६७ ॥ तं तथाविधमालोक्य महीतलविलोठिनम् । ते सर्वे तारपूत्कारमरुदन् शोकविक्लवाः ॥ १६८ ॥ तेषां नेत्रतडागेषु स्वबन्धोर्वधकारिणि । अमर्षग्रीष्मधर्माशुरश्रुवारीण्यशोषयत् ॥ १६९ ।। यदा विलोकयन्तोऽपि भ्रातुर्नाज्ञाशिघुषिम् । तदा सर्वेऽपि संभूय ते पर्यालोचयन्मिथः ॥ १७०॥ पूर्वमप्यस्य जानीमो मालिन्यामनुरागिताम् । भ्रातुनः सैच तन्नूनमभवन्मृत्युहेतवे ॥ १७१ ।। तदीयदयितैरेव बन्धुर्नों नियतं हतः। कथंचिन्नोपलभ्यन्ते ते च प्रच्छन्नचारिणः ॥ १७२ ।। तदेतामेव सैरंध्री सहानेन खबन्धुना । चितावैश्वानरे क्षिप्त्वा क्रोधं विध्यापयामहे ॥ १७३ ॥ इत्यालोच्य चितावहौ निजेन सह बन्धुना । प्रक्षेप्तुमनसोऽभ्येत्य मालिनीमाकृषभुजे ॥ १७४ ।। बलादाकृष्यमाणा तैरिति पूत्कुरुते स्म सा । जयो जयन्तो विजयो जयसेनो जयबलः॥ १७५॥ यूयं चेत्कापि वर्तध्वे तन्मां रक्षत रक्षत । एतैश्चितानले क्षेप्तुं नीयमानां दुरात्ममिः ॥ १७६ ।।