पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । तद्वपुर्बद्धरोमाञ्चनरकक्रोडभाविमिः । सर्वे विद्धमिहैवाभूदयःशू(सू)चीचयैरिव ॥ १५१ ॥ कृष्णापि तं तथैक्षिष्ट विग्यस्निग्धैरिवेक्षणैः । स प्रकामं यथा मेने तामात्मन्यनुरागिणीम् ।। १५२ ॥ शनैः शनैः समभ्येत्य दीनैर्दीनैर्वचःक्रमैः । । सोऽथ तामर्थयांचक्रे तद्गिरं साप्यमन्यत ।। १५३ ।। तमभ्यधत्त सैरंध्री निशीथे नाट्यवेश्मनि । स्थास्याम्यहमुपागम्य तत्रागच्छेद्भवानपि ॥ १५४ ॥ इति संकेतमादाय द्रौपद्यन्तःपुरं ययौ । कीचकोऽप्युल्लसत्प्रीतिरन्तिकं नृपतेरगात् ॥ १५५ ॥ देवताराधनस्तैस्तैः कीचकस्याभिलष्यतः । प्रियः सुहृदिवागच्छत्कथंचिद्दिवसात्ययः ।। १५६ ॥ भाविनीमापदं पश्यन्सुदेण्णासोदरस्य ताम् । शङ्के पङ्कजिनीनाथस्तदुःखादस्तमाययौ ॥ १५७ ॥ यथा यथातिपीवानो बभूवुस्तिमिरोर्मयः । पीवतामाप हर्षोऽपि कीचकस्य तथा तथा ॥ १५८ ॥ अथ बिभ्रत्यहंकारमन्धकारे वृकोदरः। निर्माय मालिनीवेषमविशन्नाट्यवेश्मनि ॥ १५९ ॥ कीचकोऽपि तमस्काण्डताण्डवाडम्बरोल्वणे । वासयन्नङ्गसौरभ्यर्दिशस्तस्मिन्नुपागमत् ॥ १६० ॥ स नखाघातसंकेतं द्वारि तिष्ठन्नसूत्रयत् । भीमोऽप्यन्तः स्थितस्तूर्ण हुंकारमकरोच्छनैः ॥ १६१ ॥ प्रविश्य नृपतेः श्यालस्तरङ्गितमनोभवः । जगाद मुदितो भीमं सैरंध्रीवेषधारिणम् ॥ १६२ ।। एहि देवि सरभि दोमणालैहिमोपमैः।। अङ्गं निर्वापयालिङ्गय मन्मथज्वलितं मम ॥ १६३ ॥