पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१८ काव्यमाला। ! पक्षिणोऽपि प्रियां वीक्ष्य सपत्नान्यपराभवाम् । 'न ह्यलंभूष्णवः सोढुं किं पुनर्मानशालिनः ॥ १३८ ॥ इत्यादिभिः प्रियावाक्यैर्मत्सितो मरुतः सुतः । ज्वलन्नंपत्रपानम्रमौलिनींचैरवोचत ।। १३९॥ : कथं दुरात्मनो देवि तस्यैतावदहं सहे । ध्रुवः संज्ञा तदार्यस्य प्रत्यूहाय न चेद्भवेत् ॥ १४० ॥ प्रातस्तु यदि कीनाशदासतां लम्भये न तम् । कदापि गणयेद्देवि मा स तत्पुरुषेषु माम् ॥ १४१॥ परं कामातुरः स त्वां प्रातर्भूयोऽपि योक्ष्यते । नारीषु सिद्धये काममवैलक्ष्यं हि कामिनाम् ॥ १४२ ॥ स च त्वयाभियुञ्जानो माननीयो मनस्विनि । निहन्तुमनसा पीनमामिषं हि न धीयते ॥ १४३ ॥ ततः किरीटिनो नाट्यशालायां शीलशालिनि । गृह्णीयास्तेन संकेतं निशीथसमये निशि ॥ १४४ ॥ त्वदीयेनैव वेषेण तत्राहं पुरतो गतः । तज्जीवितं हरिष्यामि निबिडालिङ्गनाच्छलात् ॥ १४५॥ इत्यालोच्य रहः कान्तां विससर्ज वृकोदरः। निर्ययौ निभृतन्यस्तपदं सापि महानसात् ॥ १४६ ॥ अप्सरोजित्वराकल्पशिल्पेनाधिकशालिनी । आकृषन्ती विशेषेण कामिनीनामपीक्षणे ॥ १४७ ॥ द्रावयन्ती मनः कामं कृष्णा लीलावलोकितैः । कीचकाय प्रगे तस्थे राजवेश्मप्रवेशने ॥ १४८ ॥ (युग्मम् । तां प्रेक्ष्य पदमप्येकं जातस्तम्भः स नाचलत् । तत्पृष्ठचरणाघातपातकेनेव यन्त्रितः ॥ १४९ ॥ स्वेदोदबिन्दुसंदोहैस्तस्य दन्तुरितं वपुः । द्रौपदीस्पर्शपापेन जातस्फोटमिवाभवत् ।। १५०॥