पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४१७ भ्रूकुटीमङ्गभीमास्यो दृशा धर्मात्मजन्मना । मारुतिस्तं क्रुधा हन्तुमुत्थास्यन्विनिवारितः ॥ १२५ ॥ ततो ज्ञातेयदाक्षिण्याकिंकर्तव्यत्वमोहिते । किंचिदप्रतिपेदाने राज्ञि तूष्णीकताजुषि ॥ १२६ ॥ असंस्तुत इवोत्थाय मध्येसंसद्युधिष्ठिरः। औदासीन्यजुषा वाचा सैरंध्रीमित्यभाषत ।। १२७ ॥ तादृशास्तव चेत्सन्ति प्रिया वदसि यादृशान् । ते न नाम सहिष्यन्ते त्वां प्रत्यविनयं द्विषः ॥ १२८ ॥ तद्गच्छ गच्छ सैरंध्रि खस्थानं किं नु रोदिषि । विद्धि कीचकमन्यायदावपावककीचकम् ॥ १२९ ॥ उदासीनवदित्युक्ता द्रौपदी धर्मसूनुना । संवृत्य शोकसंरम्भमन्तःपुरमगात्पुनः ॥ १३०॥ कीचकस्यानये तस्मिन्निर्माय गजमीलिकाम् । पृथिवीपतिरास्थानादुत्थायाभ्यन्तरं ययौ ॥ १३१ ॥ तस्यामेव निशीथिन्यामविज्ञाताथ केनचित् । जगाम द्रौपदी मन्दपादपातं महानसे ॥ १३२ ॥ चरणामुष्ठमानम्य याज्ञसेनी शनैः शनैः । तत्र जागरयामास सुखसुप्तं वृकोदरम् ॥ १३३ ॥ सोऽब्रवीत्प्रेयसीं देवीं (वि) किमशूणि विमुञ्चसि । दीर्घदीर्घाश्च निश्वासान्भाषसे चातिगद्गदम् ॥ १३ ॥ साप्यूचे पृच्छसि स्वामिन् किं नामासंविदान(त)वत् । किं न हन्त त्वमद्राक्षीः कीचकाविनयं मयि ॥ १३५ ॥ भवन्तोऽद्यापि जीवन्तमात्मानं मन्वते किमु । प्रेयसी पश्यतां येषामपरैः परिभूयते ।। १३६ ॥ शौर्यं सत्त्वमहंकारश्चण्डिमा भुजदण्डयोः । जगाम सर्वमप्येतन्मन्ये लक्ष्म्या सहैव वः ॥ १३७ ॥