पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१६ काव्यमाला । इत्याक्रुश्य भृशं दूतीमा(सा)लिङ्ग्य गलहस्तिता । गत्वा म्लानमुखी सर्वं कीचकस्य न्यवेदयत् ॥ ११२ ।। उपायैर्विविधैरन्यैरपि दानादिभिर्यदा.। प्रयुक्तैरीहते रन्तुं पाञ्चाली न कथंचन ।।.११३ ।। तदान्येद्युर्बलाद्वाहौ रहः कचन कीचकः । करेण धारयामास तां मृणालीमिव द्विपः ॥ ११४ ॥ तस्करस्पर्शमासाद्य ज्वलदङ्गारसोदरम् । तदैव ताम्रतां भेजे दारुवन्मालिनीमुखम् ॥ ११५ ॥ तस्यावधीर्य सैरंध्री चाटूक्ति विषवृष्टिवत् । हठादाकृष्य दोल्लिमाक्रोशमुखरा ययौ ॥ ११६ ।। विलक्षमनसा तेन कीचकेन दुरात्मना । गच्छन्ती सा पदा पृष्ठे ततः कोपादन्यत ।। ११७॥ दीनवक्रा भुवि न्यस्तदृष्टिरसाविलेक्षणा । संसद्युपेत्य भूभर्तुरिति चक्रन्द सा भृशम् ॥ ११८ ॥ राजन्नन्यायदुर्वारपावकमावृडम्बुदः । त्वमेव भुवनेऽमुष्मिन्सर्वदुर्वृत्तशासिता ॥ ११९ ।। पूत्करोमि पुरः कस्य बभूव शरणाद्भयम् । धराधीश यदन्यायं त्वदीया एव कुर्वते ।। १२०॥ स्वप्रतिज्ञातनिर्वाहकोविदाः सत्यवादिनः। परोपकारैकघना भुवि प्रच्छन्नचारिणः ॥ १२१ ॥ ऊर्जस्वलभुजोर्जित्या धर्मधामान्यमर्षणाः।। गन्धवर्पतयः पञ्च यस्याः पञ्चाननोपमाः ।। १२२ ॥ व्यलीकरहितां तां मामनाथामिव दुर्भदः। पतिव्रता पदा पृष्ठे पापीयान्कीचकोऽवधीत् ।। १२३ ॥ (त्रिभिर्विशेषकम् ।। नियतं तेऽपि कुत्रापि न सन्त्येव मम प्रियाः। भवेयुश्चेन्निहन्येत स्पृशन्नेवैष मां यदा ॥ १२ ॥