पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । इमां रसायनैर्मन्ये तरुणीभूय निर्ममे । रूपेऽस्मिन्न प्रगल्भेत जराकम्प्रोऽन्यथा विधिः ॥ ९९ ।। न चेदस्यास्तनुस्पर्शैः प्रीणितं शिशिरात्मभिः । वपुरेतत्तदानीं मे हविर्भूतं स्मरानले ॥ १० ॥ ममात्मनो रसस्येव तप्तस्य मदनाग्निना । जायेत यद्यवस्थानमस्या धातोरिवाशया ॥ १०१॥ इति संचिन्त्य दीर्णाङ्गः कीचकः स्मरसायकैः । प्रगल्भवदनां कांचिद्दूतीं प्रैषीत्तदन्तिके ॥ १०२ ।। क्षणादभ्येत्य सा तस्याः पुरः कृपणमभ्यधात् । पतिव्रतावतं जाने भवत्या विश्वविश्रुतम् ॥ १०३ ॥ तत एवास्मि सैरंन्ध्रि त्वदभ्यर्णमुपागता । जानासि कीचकं देव्या सुदेष्णायाः सहोदरम् ॥ १०४ ॥ तस्य प्रकाममस्वस्थं वपुरद्य कुतश्चन । न केनापि प्रकारेण स्मेराक्षि खास्थ्यमश्नुते ॥ १०५॥ यदि नाम भवत्पाणिस्पर्शः शाम्यति तद्यथा । अनुभावः सतीनां हि सर्वदोषद्विपंतपः ॥ १०६ ॥ वेगात्तदेत्य कल्याणि निजस्पर्शसुधारसैः । प्रसीद रतये तस्य त्वादृश्यो हि कृपालवः ॥ १०७॥ इति श्रुत्वा वचस्तस्याः कमनीयाक्षरं बहिः । व्यञ्जयन्ती दुराकूलमन्तर्जज्वाल मालिनी ।। १०८॥ कोपादूचे च रे दूति तावकं सविषान्नवत् । मुखे मधुरमादत्ते शीलप्राणानिदं वचः ॥ १०९ ॥ मृत्यवे कीचको नूनं मत्पाणिस्पर्शमिच्छति । सिंहीकरावमर्शेन गोमायुः किमु जीवति ॥ ११० ॥ यदि खरूपमप्येतज्जानीयुः पतयो मम । तदा न ते न तस्यापि.जीवितव्यकथा क्वचित् ।। १११ ॥