पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४२३ दिव्येऽन्यस्मिंस्ततो मञ्चे रत्नभण्डपिकातले। मणिसिंहासनेऽभ्येत्य भूमीपतिरुपाविशत् ॥ २०३ ॥ ततो निदेशमासाद्य विराटवसुधाभुजः । सर्वेऽप्यारुरुहुर्मश्चान्सामन्ताः सपरिच्छदाः ॥ २० ॥ यद्यप्यरिजयं भीमे न ते संशेरते कचित् । आययुस्तदपि त्रस्तमनसो धर्मजादयः ॥ २०५॥ स्थेयांसौ बिभ्रतावंसौ कस्तूरीस्तबकाङ्कितौ । । चन्दनालिप्तसर्वाङ्गौ चण्डचण्डातकांशुकौ ॥ २०६॥ सद्यविन्ध्याविवाध्यक्षौ मल्लश्रेणिशिरोमणी । तौ ततो विशतां रङ्गं वृषकपरवल्लवौ ।। २०७॥ (युग्मम्). असौ कृतश्रमो मल्लो बल्लवस्त्वकृतश्रमः । नियुद्धमनयोर्युक्तं नादधे वसुधाधिपः ॥ २०८ ॥ परं श्यालारिरस्यायं हन्तव्योऽस्ति यथा तथा । निनिन्द मेदिनीनाथमिति सर्वस्तदा जनः ॥ २०९ ॥(युग्मम्) कन्दरादारिणोऽद्रीणां भुजास्फोटरवास्तयोः । तदा चक्रुर्जगत्सर्वं विद्राणश्रवणेन्द्रियम् ॥ २१० ॥ कम्पयन्तौ भुवं पादैर्ददानौ तलहस्तकान् । ततस्तौ विविधैर्मङ्गैर्बद्धमुष्टी प्रसर्पतुः ॥ २११ ॥ आश्वेव हन्तुमीशोऽपि बल्लवो दृषकपरम् । नेत्रोत्सवाय लोकानां कंचित्कालं व्यलम्बत ॥ २१२ ॥ अभूतां शतशस्तत्र तयोर्जयपराजयौ । विन्ध्यधात्रीधराटव्यां मत्तमातशयोरिव ॥ २१३ ॥ बल्लवेनाथ कस्मिंश्चिदानीय निजबन्धने । 'प्राणप्रयाणदीनास्यो बभञ्ज वृषकपरः ।। २१४ ॥ बल्लवस्य जये हृष्यल्लोककोलाहलो महान् । उदस्थादवनीभर्तुः सहैव पुलकाङ्कुरैः ॥ २१५ ॥

f H $