पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । इत्याफर्ण्य गिरं माद्यत्प्रमोदविवशाशनः । सहदेवं महीदेवो गोकुलाधिपतिं व्यधात् ॥ ७१ ॥ अथ वैदेशिकौचित्यकाल्पिताकल्पशालिनी । रूपलावण्यसौभाग्यविस्मारितरतिन्मया ॥ ७५॥ महादेव्याः सुदेष्णायाः सद्मायणं कदाचन । विहरन्ती भुजिप्याभिर्दो द्रुपदात्मजा ॥ ७६ ॥ दृष्ट्वा सविलयाम्नाय सुदेष्णायै न्यवेदयन् । कुतुहलवती सापि तामेताभिराजूवत् ॥ ७७ ॥ उपवेश्य परप्रीत्या तां महत्यागन जानिन । नरेन्द्रपत्नी तान्बलदानपूर्वगभापत ॥ ७८ ॥ शुभे तवायमामारो न क्ष्मावस्थानमर्हति । किं पुनः पादचारेण विदगगगनं पचित ॥ ७ ॥ ततः कथय कामि त्वं पत्नी कन्यापि नृभुजः । कुतश्चेयमवस्या त विषयान्तरदर्शनी ॥ ८०॥ स्नुपाथ पाण्डुराजस्य म्मितपूर्वमभापन । मालिनी नाम सैरंध्री दास्यस्मि न नृपप्रिया ॥ ८१ ॥ मयि प्रमाणमत्युचद्रीपदी धृतपूर्विणी । मुकुन्दमहिषी दध्रे सत्यभामापि संमदम् ॥ ८२ ॥ प्रिया विराटभूभर्तुः पाञ्चाली पुनरब्रवीत् । हन्ताहमपि सैरध्रि ब्रूपे यत्तत्करोमि ते ॥ ८३ ॥ किंतु त्वां यदि वीक्षेत कदाचिस्थितियासवः । प्रियामपि तदानीं मां मनसा नहि संस्पृशेत् ॥ ८४ ॥ भूयोऽप्युवाच पाञ्चाली कृतं ते शङ्कयानया । प्रच्छन्नाः सन्ति यत्पञ्च गन्धर्वाः पतयो मम || ८५ ॥ विरूपया विलोकेत यः कश्चन दृगापि माम् । नैव ते तस्य मृष्यन्ति तत्क्षणादेव जीवितम् ॥ ८६ ॥