पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। हरिदश्वरथाश्वाभमन्येद्युरवनीभुजः । हयं कारयतश्चित्रं बाह्याल्पां चक्रमक्रमम् ॥ ६१॥ मांसलांसस्थलो बद्धमौलिः प्रावारवाससा । निर्लोमाङ्गिः कसा(शा)पाणिर्दृढं परिकरं वहन् । ६२ ।। नकुलः कुलशैलाभमूर्तिरागाद्दृशोः पथि । वेत्रिणाचाह्वयत्स्मेरविस्मयस्तं महीपतिः॥६३॥ (त्रिभिर्विशेषकम् सोऽभ्यधाद्भूभुजा पृष्टस्तपासूनोर्महीभुजः । सर्वाश्वसाधनाधीशस्तन्त्रपालाभियोऽस्म्यहम् ।। ६४ ॥ अश्वानां लक्षणं वेद्मि वेद्मि सर्वं चिकित्सितम् । देशं वेद्मि वयो वेद्मि वेद्मि वाहनिकाक्रमम् ।। ६५ ॥ राजाब्रवीत्तव ज्ञानमाकृत्यापि निवेद्यते । आर्द्रता हि वदत्यन्तः कुम्भस्य परिपूर्णताम् ॥ ६६ ॥ इत्युदीर्य स्वमारोप्य परीक्ष्य किल तत्क्षणात् । नेतारं नकुलं चक्रे निजाश्चीयस भूपतिः ॥ ६७ ॥ परिधानपटार्धेन बद्धकक्षं स्थवीयसीम् । बिभ्राणं वैणवीं यष्टिं वृषस्कन्धं महाभुजम् ॥ ६८॥ गोव्रजेषु व्रजन्नूर्ध्वीभूतं भूपः परेद्यवि । सहदेवमुदक्षिष्ट व्रततीबद्धमूर्धजस् ॥ ६९ ॥ (युग्मम्) धरित्रीपतिरामन्त्र्य विस्मयेन तमभ्यधात् । भद्र कोऽसि कुतश्चासि स्थानादागतवानिह ।। ७० ॥ जगाद सहदेवोऽथ पाण्डवेयस्य भूभुजः । गणशो गोकुलान्यासन्प्रत्येकं लक्षसंख्यया ।। ७१ ।। स तेषां ग्रन्थिकं नाम संख्याकारं न्ययुक्त माम् । सर्वेषां बल्लवानां च राजन्नेतारमातनोत् ।। ७२ ॥ गर्भाधाने गवां कालमुपायमपि वेड्यहम् । शरीरलक्षणव्याधिचिकित्सासु तु का कथा ॥ ७३ ॥