पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१११ पाण्डवचरितम् ।

नृपोऽप्यूचे न सूदत्वमस्यामुचितमाकृतौ । कुर्वीत को हि गन्धेमे कक्षभाराधिरोपणम् ॥ ४८ ॥ ऊर्जस्विनौ हि ते बाहू पृथिवीरक्षणक्षमौ । तथापीच्छसि यत्कर्तुं तदेव कुरु बल्लव || ४९ ॥ इत्यामाष्य नृपो भीममानन्द्य कनकोत्करैः । पौरोगवानां सर्वेषामसूत्रयदधीश्वरम् ॥ ५० ॥ आमुच्य कम्बुकं चित्रमावध्य कवरीं वराम् । कर्णयोः कुण्डले न्यस्य नेत्रयोरञ्जनं वहन् ॥ ५१ ॥ निर्मायान्यदपि स्त्रैणमाकल्यं नृपवेश्मनि । विवेश विस्मयस्मेरैर्लोलेरालोकितोऽर्जुनः ।। ५२ ॥ (युग्मम् ।) भूपतिर्वलभौ कुर्वन्केलिचंक्रमणक्रमम् । उदीक्ष्य मुदितो वेत्रपाणिना तमजूहवत् ॥ ५३ ।। ऊचे च भद्रे स्त्री चेत्त्वं वक्षस्तल्लक्षणं न किम् । यदि वासि पुमानेव कुतः स्त्रीवेषधारिता ॥ ५४ ॥ आकृतिस्ते पुनः सेयं स्त्रीपुंसव्यतिवर्तिनी । इहागत्य च किं स्थान विहितं विरहातुरम् ॥ ५५ ॥ कपिकेतुरभाषिष्ट नास्मि नारी न वा पुमान् । अहं बृहन्नटो नाम किंतु षण्ढोऽस्मि भूपते ॥ ५६ ॥ योषिद्वेषं वहन्नेबमवन्यां विहराम्यहम् । नाट्याचार्यस्तपःसूनोरभूवं राज्यभूषणम् ।। ५७ !! तूर्यत्रयरहस्यानामहं वा खलु कोविदः । देवी विश्वत्रयाराध्या सा च वाचामधीश्वरी ॥ ५८ ।। हेमस्तोमैस्ततस्तैस्तैरभिनन्ध बृहन्नटम् । भूमीन्दुरुत्तरां पुत्रीमध्यापयितुमार्पयत् ।। ५९ ।। ततस्तूर्यत्रयाभ्यासहेतोः पुत्र्याः क्षितीश्वरः । उत्तरेण निजं वेश्म नाट्यशालामचीकरत् ॥ ६०॥