पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११० काव्यमाला

मयि ग्रामान्तरे याते समानीय निजं पुरम् । कुरुभिः कैतवागारैर्हारितः सोऽखिलां महीम् ॥ ३५॥ पाण्डवेयास्तदारभ्य बभूवुर्वनवासिनः । राज्यप्रत्याशया तेषामनैषमियतीः समाः ॥ ३६॥ मायावीति मया राजन् श्रितो दुर्योधनो नहि । पाण्डवानामिदानीं तु किंवदन्त्यपि न क्वचित् ॥ ३७॥ धर्मन्यायसदाचारविवेकविनयादिभिः। गुणैराकीर्णमेषोऽहं तद्भवन्तमुपस्थितः ॥ ३८ ॥ अजल्पन्नृपतिः कङ्क निःशङ्कोऽत्रापि पूर्ववत् । सुखेन तिष्ठ मत्पार्थे काप्यते त्वादृशः सुहृत् ॥ ३९ ॥ धन्यः स राजा कौन्तेयो यस्य मित्रं भवादृशम् । सुलभा खलु राज्यश्रीर्दुर्लभं मित्रमद्भुतम् ॥ ४० ॥ इत्युदीर्य समभ्यर्च्य काश्चनैरश्चिताञ्जलिः । विराटभूपतिश्चक्रे सभास्तारं युधिष्ठिरम् ॥ ११ ॥ ज्वलन्निव वपुर्लक्ष्म्या खजं दीं च धारयन् । करवालकरोऽत्युच्चैः सानुमानिव जङ्गमः ॥ ४२ ॥ राजपद्यामुपेताय मध्येनगरमन्यदा । विराटभूभुजे तस्थौ गुरुस्थामा मरुत्सुतः ।। ४३ ॥ (युग्मम्) दूरादुर्वीपतिर्भीमं वीक्ष्य मांसलमंसलम् । मुदा नेदंयुगीनाङ्गं वेत्रिणाह्वाय तत्क्षणात् ॥ ४४ ॥ सोऽनुयुक्तस्ततो राज्ञा स्वां कथामित्यचीकथत् । बल्लवः सूपकारोऽस्मि भूपतेर्धर्मजन्मनः ॥ १५ ॥ न केवलमलंकारपौरोगवकलैव मे । ममैव मल्लसंदोहज्येष्ठताप्यस्य भूभुजः ॥ ४६॥ किं तु राज्यपरिभ्रंशात्तस्य भ्राम्यन्नितस्ततः । राजन्कलाविशेषज्ञमिदानीं त्वामुपागमम् ॥ १७ ॥