पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

जगाद विजयो येयमुपप्रेतवनं पुरः । निरूप्यते शनी जीर्णा फणिकृत्कारकोटरा ॥ १२॥ लताजालकरालयानतुच्छच्छन्दसंपदि । निहितान्यायुधान्यस्यां कोऽप्यभिचने नहि ॥ २३ ॥ इत्युक्त्वा सर्वतेजामि धारयन्तीव मूर्तताम् । आयुधानि न्यधात्तत्र गनीमालिनि फाल्गुनः ॥ २४ ॥ मध्येऽद्रिकन्दरं तेऽश पत्र पजानना इव । विराटस्य विशाभतुरन्तनगरमाविशन् ॥ २५ ॥ तिलकान्द्वादगापु फेरे कुलपवित्रिकाम् । कलयन्नुपवीतादतनुधीनसिताः ॥ २६ ॥ गत्वा राजकुलं कश्चित्रामणम्त्यां दिक्षने। इत्यात्मानं तपासूनुर्यत्रिणाज्ञापयतृपम् ॥ २७ ॥ तथा विज्ञापितो वनिपुंगवन विशांपतिः । तं सभामर्धदानादिपुरःसरमवीविद्यात् ।। २८ ।। विलोकयंस्तमायान्तमिति चान्नचिन्तयत् । किं स्वयं धर्म एवायं महीतलमवातरम् ।। २९ ।। न हि ब्रामणमात्रस्य कचिदृष्टेयमाशतिः । समुद्ररसनामेष मही शासितुमर्हसि ॥ ३०॥ अभिवाद्य नमन्मीलितं वितीर्णागिपं पुरः । प्रीत्या परमया पीठे विशामीणो न्यवीविंगत् ॥ ३१ ॥ जगाद च कुतो ब्रह्मन्नजिह्मब्रह्मवार्धिना‌ आगम्यते त्वया को वा भवान्भुवनपावनः ॥ ३२ ॥ अथावोचदजातारिः कङ्को नाम द्विजोऽस्म्यहम् । भूमिभर्तुस्तपासूनोः प्रियमित्रं पुरोहितः ।। ३३ ।। अक्षैश्च दीव्यतस्तस्य सभारतारोऽस्मि सर्वदा । मदन्यो हि न दक्षोऽभूदक्षद्यूतेऽस्य संसदि ॥ ३४ ॥