पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४०८ काव्यमाला।

वत्साः साम्राज्यसारैभ्यसंभोगसुभगोदयाः । युधिष्ठिरेण नीताः स्थ ह हा धिक्कामिमां दशाम् ॥ ९ ॥ वस्तव्यमस्ति तत्रापि वर्षमेतत्त्रयोदशम् । प्रच्छन्नैर्जनवन्मत्स्यभर्तुः सेवापरायणैः ॥ १०॥ ततो निसर्गविज्ञातसर्वसेवाक्रमानपि । स्नेहाद्ब्रवीमि वः किंचित्सागरे घनवृष्टिवत् ॥ ११ ॥ परं मान्यत्वमाप्यापि विश्वास्यं क्षितिपेषु न । विधावैवधिकेभ्योऽपि जातु रुष्यन्ति दन्तिनः ॥ १२ ॥ कुर्वन्ननुल्बणं वेषं श्रयन्नुचितमासनम् । अजल्पितोऽप्रजल्पंश्च राज्ञो भवति वल्लभः ॥ १३ ॥ नान्तःपुरपुरंध्रीभिर्न चान्तःपुरचारिभिः । न च द्वेष्यैर्महीशस्य संगच्छेत विशारदः ॥ १४ ॥ यस्य कोपो महाबाधः प्रसादश्च महाफलः । न तस्य मनसापीच्छेद्विप्रियं प्राज्ञसंमतः ॥ १५॥ असूयन्ति हि राजानो जनायानृतवादिने । क्षणादप्यवमन्यन्ते तथा पण्डितमानिनम् ॥ १६ ॥ अम्लानो बलवान् शूरश्छायेवानुगतः सदा। सत्यवादी मृदुर्दान्तः मापतेः प्रियतां व्रजेत् ॥ १७ ।। सर्वं मनसि कृत्वैतद्यः सम्यकर्म वेत्ति यत् । स तदेव पुरस्कृत्य श्रयतु क्षितिवल्लभम् ॥ १८ ॥ जयो जयन्तो विजयो जयसेनो जयद्बलः । आतुरे क्वचिदाह्वाननामानीति भवन्तु नः १९॥ इति ज्येष्ठानुशिष्टिं तामोमिति प्रतिपद्य ते । विश्वधानुष्कधौरेयं सव्यसाचिनमूचिरे ॥ २० ॥ विलोक्य सायुधानस्मान् लोकः पार्थ व्यथिष्यते । आयुधानि निधातुं तत्क्वचिदेतानि सांप्रतम् ॥ २१॥१. विधा गजाशनम् । वैवधिको वणिक्