पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४०६ काव्यमाला

एषणीयमिदं वस्तु पात्रमेतत्तपोमयम् । तदयं सुकृतप्राप्यः कौमुदीन्दुसमागमः ॥ ३६६ ॥ क कुरङ्गारिसंचारघोरकान्तारभूरियम् । पुण्यैरप्यतिदुर्लम्भः क चैष मुनिकुञ्जरः ॥ ३६७ ॥ ततो रूक्षकटध्वाङ्घशमीमात्रतरौ मरौ । अकस्मादयमस्माकं भुवं कल्पद्रुसंगमः ।। ३६८॥ इत्युद्दामपरीणामशुद्धिनिधीतचेतसः । आदाय भाजनान्येते मुनिमेत्य बभाषिरे ।। ३६९ ।। प्रभो सुप्रातरचैव पुण्यैरथैव पुष्पितम् । निजैर्यत्पावितं पादैस्त्वयेदमुटजाङ्गण(न)म् ।। ३७० ॥ तदिमं शुद्धमाहारं गृहाणानुगृहाण वः । लभ्यतां दैवयोगेन निर्धनैरपि से(शे)वधिः ।। ३७१ ॥ द्रव्यादिशुद्धमाहारं विज्ञायात्यन्तनिस्पृहः । मुनिरप्याददे तादृग्न विराध्यति संयमम् ॥ ३७२ ।। तदानीं ताडयामासुटुंसदो दिवि दुन्दुभिम् । उद्यत्प्रमोदकल्लोलाचेलोत्क्षेपं च चक्रिरे ॥ ३७३ ॥ विहितार्थिजनाधारा वसुधारा दिवोऽपतत् । पुष्पगन्धाम्बुवृष्टी च पेततुर्वासितक्षिती ॥ ३७४ ॥ अवादीद्देवता काचित्प्रसन्ना तान्नमःस्थिता । दानस्यास्य प्रभावाद्वः समीपे संपदोऽखिलाः ॥ ३७५ ॥ विराटनगरे किंतु वर्षमेतत्रयोदशम् । न चाभ्यां वेषकर्मभ्यां प्रच्छन्नाः स्थातुमर्हथ ॥ ३७६ ॥ एवमावेद्य सा तेभ्यः क्षणेनैव तिरोदधे । मुनिश्च स्वर्गिणश्चैव ययुः सर्वे यथागतम् ॥ ३७७ ॥ पारणं पाण्डुतनयास्तेनुः पुण्यमयं पुरा । पश्चादन्नमयं चक्रुः शरीरस्थितिहेतवे ।। ३७८ ॥