पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम्। ४०५

मत्सरं कुरुराजस्य क्रूरतां च द्विजन्मनः । तीक्ष्णत्वं यच्च कृत्यायाः सौजन्यं च दिवौकसः ॥ ३५४ ॥ मुहुश्चिन्तयतां नानाभावचित्रेण चेतसा । सा तेषामतिचक्राम क्षणेनैव निशीथिनी ।। ३५५ ।। अम्लानांस्तानिव द्रष्टुं सप्तरात्रमुपोषितान् । पौरस्त्यादर्णवात्तूर्णमर्यमाथ विनिर्ययौ ॥ ३५६ ॥ पारणाविधये तेषां कुर्वन्नभ्यर्थनामिव । पाणिपादे सहस्रांशुलंगति स्म मुहुः करैः ॥ ३५७ ।। अथ वन्यैः फलैर्धान्यैः शाकैश्च हृदयंगमैः ।। कृष्णा निष्पादयामास नवां रसवती जवात् ।। ३५८ ॥ स्वस्वासनोपविष्टानां जनन्या परिवेषिते । वस्तुजाते समस्तेऽपि चिन्ता तेषामभूदियम् ॥ ३५९ ।। कुतोऽपि समयेऽमुष्मिन्किचित्पात्रं तपोमयम् । यद्युपैति तदा विमो भाग्यानामनुकूलताम् ॥ ३६०॥ धन्यास्ते पुण्यकर्माणस्तेषां चासन्नभव्यता । येषाममूदृशे काले सत्पात्रमुपतिष्ठते ॥ ३६१ ॥ अवतारो मनुष्येषु तेषामेव फलेग्रहिः । सुक्षेत्र इव यैः पात्रे न्यायात्तं वित्तमुप्यते ॥ ३६२ ॥ इति चिन्तापरेण्वेषु सार्थे वचन तस्थुषः । सूरेः सुचरिताख्यस्य मुनिः कोऽप्यतिसंयमी ॥ ३६३ ।। वपुष्मदिव चारित्रं मूर्तं तप इवानघम् । एत्य तेषां पुरस्तस्थौ मासक्षपणपारणे ॥ ३६४ ॥ (युग्मम्) तं तपोधनमालोक्य लोकोत्तरगुणोदयम् । पुनः पल्लवितानन्दास्तेऽन्तःस्वान्तमचिन्तयन् ॥ ३६५ ।।१. "शिष्य इति शेषः' इति गद्यपाण्डवचरिताज्ज्ञायते । नाम चास्य मुनेर्धर्मयोष