पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

स दूरे शबरस्तावन्न सरस्तन्न तं वटम् । तं भूनभश्चरं लोकं न चाद्राक्षीन्नरेश्वरः ॥ ३४१॥ तपस्याशु व्यवस्यन्तमात्मानमुटजान्तिके । मुदितः सानुजन्मानमालोकत स केवलम् ।। ३४२ ॥ पुरुषं च पुरः कंचित्काञ्चनद्युतिविग्रहम् । चलन्माणिक्यताटकं सोऽपश्यदिव्यमूर्तिकम् ॥ ३४३ ॥ अथासौ विस्मयत्रस्यदितिकर्तव्यताजडम् । जगाद मेदिनीनाथं प्रसादविशदाननः ॥ ३४४ ॥ शृणु विश्वंभराधीश तदेकमनसा त्वया । योऽयमाराधितो धर्मस्तस्येयं स्फूर्तिवर्णिका ॥ ३४५॥ यतः सौधर्मवास्तव्यः सुरो वा स च वल्लभः । अहं धर्मावतंसाख्यो धुर्यों धार्मिकपालने ॥ ३४६ ॥ ज्ञात्वाहमवधिज्ञानात्तपोनियमशालिनाम् । कृत्योपसर्गमुच्छेत्तुं रभसादागतोऽस्मि वः ॥ ३४७ ॥ उत्पाद्य कृत्रिमा सेनामेनां हृत्वा च वः प्रियाम् । अपूजयं कशाधातमिषान्मन्दारदामभिः ॥ ३४८ ॥ सरोऽपि च तदन्येषु पीयूषप्रतिमोदकम् । युष्माखहं विषीचक्रे पुलिन्दश्चाभवं ततः ॥ ३४९ ।। सांप्रतं मुक्तभूयिष्ठं भवतामपि दुष्कृतम् । निकाचितेष्वपि तपः प्रभवत्येव कर्मसु ॥ ३५० ।। इदानीमनुजानीहि पुनः खर्गमनाय माम् । ज्ञेयः सहायसंख्यायामहमप्यात्मनस्त्वया ।। ३५१ ॥ इत्युदीर्य गते देवे ययौ सूर्योऽप्यदृश्यताम् । सतां कृत्वोपकारं तं हर्षादन्वीयिवानिव ॥ ३५२ ।। स्थापिते च नभःस्थाले नक्षत्राक्षतसंभृते । आययौ किल तानिन्दुदना वर्धयितुं निशा ।। ३५३ ।।१. काचितः शिक्ये स्थापित इति कोशः। उन्नत इत्यर्थः.