पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४०३

यदल्पमपि जीवेयुरेते ते चण्डि पाण्डवाः । विपक्षक्षयमाधातुं प्रभवेयुस्ततो ध्रुवम् ॥ ३२८ ॥ विक्रामन्ति मृतेष्वेव शृगालाः सरभादयः । जीवत्वेव महेभेषु सिंही संरभते पुनः ॥ ३२९ ।। गत्वा हन्तु तमेवासौ तद्विपं विप्रतारकम् । दुष्प्रयुक्तः प्रयोक्तारमभिचारो हि लुम्पति ॥ ३३० ॥ पिङ्गलाव्यपदेशेन तां गिरं शबरोदिताम् । निशम्य गगनेनैव ययौ व्यावृत्य राक्षसी ॥ ३३१ ॥ युष्माकमन्तिकेऽभ्येत्य भूयोऽपि सममार्यया । विलापान्कुर्वती तांस्तांस्तार तारमरोदिषम् ॥ ३३२ ॥ स्मृत्वाथ नागराजस्य गिरं वं कर्णपङ्कजम् । वीक्ष्य चासंदिहानाहमायौं कुन्तीमवादिषम् ॥ ३३३ ॥ देबि कर्णावतंसालमद्याप्येतद्विकखरम् । यत्रामी नियतं प्राणैर्विमुच्यन्ते सुतास्तव ॥ ३३४ ॥ केवलं दधते दूर परीपाकमुपेयुषा । केनाप्यापद्विवर्तेन ध्रुवं मूर्छालताममी ।। ३३५ ।। तत्तस्यैव प्रतीकारः कश्चिदन्तर्विचिन्त्यताम् । एवं वदन्ती मामेत्य कृपालुः शबरोऽब्रवीत् ॥ ३३६ ॥ कृतं ते चिन्तया भद्रे नृपकण्ठविलम्बिनी। रत्नमालां निधायान्तः कान्तान् सिञ्च सरोम्भसा ॥ ३३७ ॥ कृत्वा चेतसि तद्वाचं निषिञ्चामि जलेन वः । युष्मचैतन्यलाभाच्च फलितं मे मनोरथैः ॥ ३३८ ॥ निष्कारणोपकारी मे स कुन शबरोऽधुना । इति कन्दलितानन्दः पप्रच्छ नृपतिः प्रियाम् ।। ३३९॥ कृती सांप्रतमत्रैच सोऽभूदिति तयोदिते । दृशौ व्यापारयामास सर्वाखाशासु पार्थिवः ।। ३४० ॥