पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४०२ काव्यमाला।

पञ्चषान्विशिखान्पाणौ दधद्धन्व च जर्जरम् । उपेत्य शंबरः कश्चिन्मामवादीद्दयान्वितः ॥ ३१५ ॥ परिभ्रमसि शून्येषु कथं कान्तारवर्त्मसु । भद्रे भद्रंकराकाराः सन्तीह तव वल्लभाः ॥ ३१६ ॥ स युष्मान्दर्शयित्वा मे कुन्तीं चार्यामिहानयत् । अपश्याव मृतप्रायानावां वः साश्रुलोचने ।। ३१७ ॥ यावदावामतीवार्ते प्रवृत्ते परिदेवितुम् । आकर्णयावः सहसा तावत्किलकिलारवम् ॥ ३१८ ॥ ततो व्यात्तमुखप्रेवदंष्ट्राङ्कुरभयंकराम् । पिङ्गाक्षीं पिङ्गचिकुरां गवलश्यामलाकृतिम् ॥ ३१९ ॥ आलोकयावः फेत्कारैः कर्णज्वरकरी भृशम् । कांचित्त्वरितमायान्तीमन्तरिक्षण राक्षसीम् ॥ ३२०॥ (युग्मम्) दूरादालोक्य तस्यास्तमाकारमतिभैरवम् । आवाभ्यामतिभीताभ्यां सेयं कृत्येति निश्चितम् ॥ ३२१ ॥ विभाव्याथ तथोद्धान्ते स पुलिन्दः पितेव नौ । अन्तर्द्धाय खदेहेन तस्थौ स्नेहार्द्रमानसः ॥ ३२२ ॥ साप्यागत्य मृतान्युष्मान् वीक्ष्य वैलक्ष्यमागता। अभ्यर्णस्थामभाषिष्ट राक्षसी राक्षसेश्वरी ॥ ३२३ ॥ पिङ्गले पाण्डवानेतान्मृतानेव निशुम्भितुम् । प्रहिताहमहो तेन ब्राह्मणेन दुरात्मना ॥ ३२४ ॥ एतेषां किंनु निश्छद्ममृत्युश्छद्मकृतोऽथवा । इत्यासन्नतरीभूय सम्यग्जानीहि पिङ्गले ॥ ३२५ ।। तामिमां स्वामिनीवाचं प्रमाणीकृत्य पिङ्गला। युष्मान्पर्यस्य पश्यन्ती पुलिन्देन न्यगद्यत ॥ ३२६ ।। त्वादृशां मृतकस्पर्शः पिङ्गले न त्वमङ्गलम् । सरस्यमी विषं पीत्वा मृता एव न संशयः ।। ३२७ ॥