पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ४०१

अनेन वचसा तस्य धर्मसूनुः क्रुधा ज्वलन् । पयः पीत्वा जवाद्धावन्बन्धूनां सविधेऽपतत् ॥ ३०२ ॥ तदा तेषामुपागच्छन्मूर्छा काप्यतिशायिनी । पञ्चत्वमेव निश्चिक्ये यथा व्योमचरैरपि ॥ ३०३ ॥ तस्मिन्मूर्छाक्षणे तेषामारण्याः पशवोऽपि हि । तृणप्रासादिकं सर्वं सर्वेऽपि मुमुचुः शुचा ॥ ३०४ ॥ समं समस्तभूतानां प्रमोदनवकन्दलैः । किंचित्क्षणान्तरे तेऽथ नयनान्युदमीलयन् ॥ ३०५ ॥ कृत्वाम्बु नलिनीपत्रे रत्नमालापवित्रितम् । प्रत्येक तेऽभिषिञ्चन्तीं द्रौपदी ददृशुः पुरः ॥ ३०६ ॥ स्ववासःपल्लवाग्रेण बीजयन्ती मुहुर्मुहुः । सिञ्चन्तीं चाश्रुभिः कुन्ती ते वीक्षांचक्रिरेऽग्रतः ॥ ३०७ ॥ बाष्पप्लावितपक्ष्मान्तैनभश्चरवनेचरैः । ते पश्यन्ति स्म रोदस्यौ संकीर्णे खजनैरिव ।। ३०८॥ निविष्टास्ते पटान्तेन प्रसृष्टरजसोऽम्बया । प्रियामद्राक्षुराक्षेपात्प्रत्याशप्रहितेक्षणाः ॥ ३०९ ॥ तवापहर्ता पापीयान्स निस्त्रिंशशिरोमणिः । क ययौ यदिहायासीः सुमनोमालभारिणी ।। ३१० ॥ प्रक्षिप्तरत्नमालेन किं नो नीरेण सिञ्चसि । वृत्तान्तमेतमस्माकं द्रुतमावेदय प्रिये ॥ ३११॥ समक्षमेव सर्वेषामाचख्यौ साथ भूभुजे । त्वय्यायाते पयः पातुं तं नाद्राक्षं च तां चमूम् ॥ ३१२ ॥ कित्वेकाकिनमात्मानमपश्यमटवीगतम् । व्यालानां शृण्वती नादानभूवं च भयातुरा ॥ ३१३ ॥ त्वमार्यपुत्र कुत्रासि रक्ष मामिति वादिनी । इतश्चेत्तश्च पर्याटमटवीपदवीष्वहम् ॥ ३१४ ।।