पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

सिंहेनेव त्वया मुक्तो बनोद्देश इवाधुना । अभूवमहमाक्रम्यो हा मृगैरिव वैरिभिः ॥ २८९ ॥ हा वत्स पार्थ पार्थक्यं प्राणैरपि न ते मम । इयं कथमवस्था ते जीवत्यपि युधिष्ठिरे ॥ २९० ॥ किं पूरयसि वत्स त्वं पिशुनानां मनोरथान् । दृढचण्डिमगाण्डीवं यद्दूरं तत्यजे त्वया ॥ २९१ ।। येन मृत्युपरीरम्भं लम्भितास्तलतालवः । अकाण्ड एव गाण्डीवे तत्रानास्था कथं तव ॥ २९२ ॥ नाद्यापि विहितं कृष्णापराभवनिशुम्भनम् । त्वमेव किमु निद्रासि विस्मृतारातिविक्रमः ॥ २९३ ॥ इदानीमपि केनापि हियमाणा सर्भिणी । मोचनीया त्वयैवेयं त‌त्किं स्वपिषि निर्भरम् ॥ २९४ ॥ अभवत्पूर्णदेशीया वत्स द्वादशवत्सरी । प्राप्तोऽस्यम्बुधिमुत्तीर्य गोष्पदे मजनास्पदम् ॥ २९५ ॥ राधासुतस्य सफलैः संजातमुपयाचितैः । यातोऽसि दैवयोगेन यत्त्वमेतादृशी दशाम् ॥ २९६ ॥ वत्सौ यमौ युवां दृष्ट्वा हृदयं मे विदीयते । अक्षतोऽहं गतो मातुर्मान्या वक्ष्यामि किं पुरः ॥ २९७ ॥ एवं विक्लवमुर्चीशं कश्चिदूचे पुलिन्दकः । भोः कापुरुष केनापि प्रेयसी ते विलुप्यते ॥ २९८ ॥ उत्तरीयमपाकृत्य कशाभिस्ताड्यते भृशम् । आर्यपुत्रार्यपुत्रेति करुणं सापि रोदिति ॥ २९९ ॥ हेतोः कुतश्चिदेते तु मूच्छितास्तव बान्धवाः । सर समीरणस्पर्शादुत्थास्यन्ति स्वयं क्रमात् ।। ३०० ॥ ततः प्रियतमामाशु शत्रोस्त्रायस्व सांप्रतम् । कलङ्को हि महान्पुंसां दाराणामप्यरक्षणम् ।। ३०१ ॥