पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

इतश्च ह्रियते कृष्णा केनाप्यस्मद्विरोधिना । इतश्चैकाकिनी माता दुःखं तिष्ठति पृष्ठतः ॥ २७६ ॥ न जाने सममस्माभिर्हतकस्य विधेरहो। कौतस्कुतमिदं वैरमेवं द्रुह्यति येन नः ॥ २७७ ।। परं पिपासामार्यस्य प्रतिकृत्याम्बुनामुना। अहं वत्साः प्रतीकारं विधास्यामि विधेरपि ।। २७८ ॥ शुचं कृत्वैवमापीय पयस्तृष्णाप्रवासकृत् । गृहीत्वा च ब्रजन्नासीत्तुल्यावस्थः स बन्धुभिः ॥ २७९ ।। स्थित्वातिमहती वेलां ततो दध्यौ तपःसुतः। विलम्बते स्म भीमोऽपि कथंकारमनादरः ।। २८० ॥ तद्गत्वा निखिलाचारचतुरांश्चतुरोऽपि तान् । शौण्डीरमकलासिन्धून्बन्धूनन्वेषयाम्यहम् ।। २८१॥ इत्यालोच्य शुचा चान्तचेताः कुन्तीसुताग्रजः । गतस्तत्रानुजान्प्राप्तानद्राक्षीत्तादृशी दशाम् ॥ २८२ ॥ विलप्य तुमुलं चोच्चैः शुचा चात्यन्तविलः । वत्सा युष्माभिरेकाकी कथं त्यक्तोऽस्मि कानने ।। २८३ ॥ चतुर्भिरपि युष्माभिर्वैरिभूधरभेदिभिः। दन्तैत्रिदशदन्तीव सदैवाहं विजित्वरः।।२८४ ।। बभूवाहमनुल्लङ्घयो युष्माभिः पार्श्ववर्तिभिः । धराभोगसमर्यादैश्चतुर्मिः सागरैरिव ॥ २८५ ॥ हा वरस भीम मां त्यक्त्वा किं शेषे निद्रयानया । सांप्रतं सांप्रतं किं ते सदुःखं मामुपेक्षितुम् ।। २८६ ।। दुर्योधनस्य गदया नोरुमतस्त्वया कृतः । न च दौःशासन वक्षः क्षुण्णं तन्मां किमत्यजः ।। २८७ ॥ हिडम्बवककिीराः कृतान्तातिथयस्त्वया । महाबाहो कृता येन तच्छौण्डीय क ते गतम् ।। २८८ ।।