पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३९८ काव्यमाला।

विलम्बमम्बुनः पश्यन्पार्थमूचे युधिष्ठिरः । जलाय प्रहितौ वत्स वत्सौ चिरयतः कथम् ॥ २६३ ॥ जवात्तद्गच्छ वृत्तान्तं जानीहि च कनीयसोः । तूर्णमानीय पानीयं मुषाण च तृषां मम ।। २६४ ॥ तडागमथ जङ्घालो जगाम च धनंजयः । खांसाविव कनीयांसौ पेतिवांसौ ददर्श च ॥२६५॥ तावालोक्य तथावस्थौ पार्थः पृथुलपूत्कृतः। पर्यदेवत हा वत्सौ केनेमां गमितौ दशाम् ॥ २६६ ॥ द्रुतमुत्तिष्ठतां वत्सौ नन्वार्यः खिद्यतेतमाम् । तस्मै तृष्णातुरायैतदुपढौकयतां पयः ॥ २६७ ॥ एतां तूष्णीकतां वत्सौ मुक्त्वा कथयतं मम । कृतमत्याहितं केन निगृह्णाम्येष येन तम् ॥ २६८ ।। यद्वा पिपासामार्यस्य पूर्व व्यपनयाम्यहम् । ततो विपदमेतां वा प्रतिकर्तास्मि यत्नतः ॥ २६९ ।। इत्युदीर्यार्जुनः साश्रुकणेहत्यपयः पपौ । बन्धुहेतोहीत्वा च प्रतस्थे कियती भुवम् ॥ २७० ॥ अश्रुमिश्रं वहन्नीरं कनिष्ठान्तिकमागतः। तार्तीयिकस्तयोरासीत्सोऽपि मूर्छाविसंस्थु(छु)लः ॥२७१ ॥ अभ्यधाद्धर्मजो भीमं बान्धवान्वेषणाकृते । प्रहितस्यार्जुनस्थापि कालो भूयानभूत्कथम् ॥ २७२ ॥ कनिष्ठबन्धुवर्गस्य निसर्गप्रीतिशालिनः । गत्वा जानीहि वृत्तान्तमपतृष्णं च मां कुरु ॥ २७३ ॥ इति ज्येष्ठगिरा भीमः सरस्तीरमुपेयिवान् । अपश्यद्वान्धवान्प्राप्तान्मृत्योर्नेदीयसी दशाम् ॥ २७४ ॥ विललाप च हा वत्साः किमिदानीमुपस्थितम् । इदं वोऽस्त्येकतो दौस्थ्यमन्यतः क्लिश्यते गुरुः ।। २७५ ॥