पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

यदा ते संनिदधते दधते च पराक्रमम् । तदा स नृपतिः कृष्णां कशापात्रताडयत् ॥ २५०॥ तेन न्यकारतापेन शिरःस्थेनांशुमालिना । तपसा चाभवत्तेषामुदन्या तालुशोषिणी ॥ २५१ ॥ तेन तर्षप्रकर्षेण क्लान्तोऽतीव तपासुतः। बभाषे बान्धवान्वत्सा तृष्णा मां बाधतेऽधिकम् ॥ २५२ ॥ सुशादलदलश्रेणिव्याख्यातजलसंनिधेः । असौ पश्यत वामेन दृश्यते निकटो वटः ॥ २५३ ॥ इन्द्रनीलशिलानीलैः पौर्नेत्रप्रियंकरैः । दृष्टोऽपि बन्धुबदर न्यग्रोधो मां धिनोत्ययम् ॥ २५४ ॥ पथिकाश्वासनाहेतुः सेतुरेतस्य वामतः । शंसत्यसौ पिपासार्तवितीर्णावसरं सरः ॥ २५५ ।। अमी वञ्जुलहारीतजीवंजीवकपिङ्गलाः । एतस्योपरि कूजन्ति जलवैभवबन्दिनः ॥ २५६ ॥ एतानि मृगयूथानि निर्यान्ति प्रविशन्ति च । ध्रुवमेतस्य निर्दोषं स्वाद्य चाचक्षते पयः ।। २५७ ॥ एषोऽपि द्रौपदीदस्युर्विलोक्यास्मानवस्थितान् । यावद्विलम्ब्यमानोऽस्ति तावदानीयतां पयः ॥ २५८ ॥ द्विषं प्रोषिततृष्णस्तु दोष्णोर्बलभरादपि । कीनाशवेश्म नेष्यामि प्रत्यानेष्यामि च प्रियाम् ॥ २५९ ॥ इत्युदीर्य तपःसूनुस्तस्मिन्सरसि रहसा । नकुलं सहदेवं च प्रेषयामास वारिणे ॥ २६० ॥ तावथ त्वरितं गत्वा यथेष्टं पपतुः पयः । कृत्वा च पमिनीपने चेलतुः पञ्चषान्क्रमान् ॥ २६१ ॥ तस्तावुच्छलन्मूर्छानिःसहौ पेततुर्भुवि । जन्तवो हि विडम्व्यन्ते कर्ममिभिन्नमर्मभिः ॥ २६२ ॥