पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

उच्चैःकारं कृताक्रोशाः क्रोशमात्रां भुवं यथा । उत्पतन्तः पतन्तश्च जग्मुः कन्दुकलीलया ॥ २३७ ॥ उल्लुण्ठैर्वेत्रिवण्ठैस्तैर्गत्वा संवर्मितां चमूम् । समानीय निमेषार्धात्सर्वेऽरुध्यन्त पाण्डवाः ।। २३८ ॥ ऊर्जस्वलस्तपस्तेजोनिस्तुषीकृतकान्तयः । सावज्ञमनसस्तेऽपि जगृहु: स्वं स्वमायुधम् ॥ २३९ ।। तैः संग्रामकृतोद्योगैरुद्यतास्तैः पुरस्कृताः । अनेशत्पञ्चभिः सिंहैरेणश्रेणीव सा चमूः ॥ २४० ।। सेनानुगमशौण्डेषु पाण्डवेप्वेव पृष्ठतः । नृपलक्ष्मा पुमानेकस्तेपामुदजमाविशत् ॥ २४१ ।। षड्दिनोपोपिते कुन्तीकृष्णे धमैकतत्परे । परं पुरुषमालोक्य परमं क्षोभमीयतुः ॥ २४२ ॥ पाण्डवेषु दवीयेपु ते उभे भयकातरे । निमील्य केवलं नेत्रे हृदि सस्मरतुर्जिनम् ॥ २४३ ॥ बलाबाहौ स जग्राह नरेन्द्रो द्रुपदात्मजाम् । हयमारोहयित्वोच्चैरुदीर्णरुदितध्वनिम् ॥ २४४ ॥ तुरङ्गान्तरमारुह्य स प्रसह्य जहार ताम् । द्रौपद्याश्च तमाक्रन्दं शुश्रुवुः पाण्डवाः समम् ॥ २४५ ॥ त्यक्त्वा च तां क्रुद्धास्तेऽभ्ययुः कान्तापहारिणम् । जविना वाजिना सोऽपि ध्वजिनीमध्यमध्यगात् ॥ २४६ ॥ एकतस्तन्नृपानीकमन्यतः पञ्च पाण्डवाः । तथापि बलिनां तेषां न क्षोभस्य लवोऽप्यभूत् ॥ २४७ ॥ करे यासि करे यासि प्रेयसीमपहृत्य नः । इति व्याहृत्य पार्थेन तमनु प्रेषिताः शराः ।। २४८ ॥ उद्यतैर्युगपत्पातुं सेनासप्तार्णवीमिव । चक्रे तपःकृशीयोभिस्तैरगस्तीयितुं स्पृहा ॥ २४९ ॥१. वण्ठशब्दो भृत्यवाची