पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

अधिष्ठायोटजक्रोडं दिनान् षडपि सादरम् । निष्ठाप्राप्तमनुष्ठानं कुन्ती कृष्णा च चक्रतुः ।। २२४ ॥ कृत्योपसर्गसोत्कण्ठाः सप्तमे त्वह्नि पाण्डवाः। सर्वे धर्मे व्यधुर्ध्यानं निधायास्त्राणि संनिधौ ॥ २२५ ।। उज्झितः शान्तचेतोभिस्तैस्तदा चिरसंस्तुतः । अस्त्रव्याजाद्रसो वीरस्तदुपास्तिमिवाकरोत् ॥ २२६ ॥ अथ पाण्डुसुतैः पांसुपूरो दूरोपसृत्वरः । अभितः करभीकण्ठरोमधूम्रो व्यलोक्यत ॥ २२७ ॥ अतिजङ्घालमुत्तालफालग्रस्तनभस्तलम् । तैरश्वीयमनल्पीयः प्रेक्षांचके समन्ततः ॥ २२८॥ जितोद्दामतडिद्दामवर्षवर्षास्विवाम्बुदाः । सिन्दूरेण स्रवद्गण्डास्तैरदृश्यन्त दन्तिनः ॥ २२९ ॥ अथ वेणुलता पाणौ बिभ्राणाः क्रूरमूर्तयः । केचन द्वाःस्थवर्गीणास्तानागत्य बभाषिरे ।। २३० ।। अरे वनचराः शीघ्र स्थानमेतद्विमुञ्चत । राज्ञो धर्मावतंसस्य निवासोऽत्र भविष्यति ॥ २३१ ॥ तेषां दुर्वचसा तेन समुत्सार्य समं बलात् । भीमान्तःकरणे क्रोधः समर्थोऽस्थाप्यत क्षणात् ।। २३२ ।। आकस्मिकतिरस्कारै रौद्राकारो वृकोदरः। साटोपकोपकम्प्रेण पाणिनोपाददे गदाम् ।। २३३ ॥ अभाषिष्ट च रे दुष्टाः कः कालेन कटाक्षितः । बलान्मौलिमणिं हन्त वासुकेः को जिघृक्षति ॥ २३४ ॥ कः केसरिकिशोरस्य कर्षति स्कन्धकेसरान् । तिष्ठतोऽत्र सुखेनास्मान्को नु निर्वासयिष्यति ॥ २३५ ॥ वयं निर्वासयिष्यामो युष्मानिति विवक्षवः । ते भीमेन तथा क्रोधाद्गले धृत्वापहस्तिताः ॥ २३६ ॥