पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

ज्येष्ठोऽथ तमभाषिष्ट सत्यमेव वचस्तव । सा चेत्ते दृक्पथं यायाद् व्यापाद्येत तदा त्वया ॥ ११ ॥ रक्षोजातिस्त्वतिक्षुद्रा नानाकूटपटीयसी । अदृश्या वैरिणी हन्तुं शक्या नोर्जस्वलैरपि ॥ २१२ ।। कुरु कर्णे ममोपायं सर्वापायनिवारणम् । आयान्ति विपदः कर्मदूताहूता हि देहिनाम् ॥ २१३ ॥ तच्च कर्म निराकर्तुमलंकर्मीणविक्रमः । एक एव परं धर्मों वत्स चेतसि धार्यत्ताम् ॥ २१४ ।। निःशेषदुःखमूलानि यः कर्माणि निकृन्तति । धर्मोऽस्माकं स एवैकः स वेत्तुमुचितोऽधुना ॥ २१५॥ एतां धर्मसुतस्याज्ञां कृत्वा मौलिशिखामणिम् । सर्वेषु कृतचर्यासु चक्रुरुज्जागरं मनः ॥२१६ ॥ अशनं खादिम सर्व खाद्यं त्रिविधमप्यमुम् । परितत्यजुराहारं ते सर्वे सप्तबासरीम् ।। २१७ ॥ एकतानाः स्मरन्तस्ते पञ्चानां परमेष्ठिनाम् । उटज परितो भेजुर्निर्जनां पृथिवीं पृथक् ॥ २१८ ॥ प्रलम्बितभुजास्तन्न नाशा(सा)निहितलोचनाः । तस्थुः प्रतिमया जातु देहेनोवैदमेन ते ॥ २१९ ॥ वशीकृतेन्द्रियग्रामा विधायोत्कटिकासनम् । आत्मारामं मनः कृत्वा कदाचित्तेऽवतस्थिरे ।। २२० । कदाचनापि चक्रुस्ते स्थिता गोदोहिकासने । अर्हत्तत्वैकलीनान्तःकरणाः कर्मणां क्षयम् ॥ २२१ ।। कायक्लेशनिसृष्टाङ्गाः शुचयो ब्रह्मचारिणः । एवं निर्गमयामासुर्वासराणि क्रमेण षट् ॥ २२२ ।। किरीटी त्वेकपादेन प्रतिमामास्थितस्तदा। मन्त्रराजैकतानात्मा निन्ये षड्दिवसीमपि ॥ २२३ ।।