पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

सादरः सोदरोऽभ्येत्य पुरोचनपुरोधसः । डिण्डिमं वारयामास क्रूरचेताः खुरोचनः ॥ १९८ ॥ ततः पाटहिकैर्नीतः स दुर्योधनसंनिधौ । उद्यतः कथयामास शक्तिव्यतिकरं निजम् ॥ १९९ ॥ आराधिता मया पूर्वमस्ति कृत्येति राक्षसी । क्रुद्धासौ असते क्षोणीं षट्खण्डी किमु पाण्डवान् ॥ २०० ॥ विधास्यामि तवाभीष्टमहि तद्देव सप्तमे । ममापि पाण्डवेया हि पुरोचनवधाविषः ॥ २०१॥ वाचं सुरोचनस्यैतामवधार्य सुयोधनः । मुदं प्रसादयामास लम्भयामास तं तदा ॥ २०२॥ तेन तेनोपचारेण तैस्तैश्च जपकर्मभिः । कृत्याराधनमाधातुं सोऽपि गेहमुपाययौ ॥ २०३ ॥ अहं चेहागमं भीम युष्माकमतिपीडया । आजन्माभ्यस्तदुष्कृत्या कृत्या सात्यन्तदुर्जया ॥ २०४ ॥ अतिरौद्रमनोवृत्तरन्यरक्षोविचक्षणम् । तस्या भीष्मत्वमद्वैतं विख्यातं भुवनत्रये ॥ २०५॥ सोऽप्युपासितदुर्विद्यादीग्रो विप्रः सुरोचनः । अतिक्रूरमनाः कामं दक्षः क्षुद्रेषु कर्मनु ॥ २०६ ॥ ततः कृत्याप्रणीतो वः प्राणसंदेहकृद्धवम् । दुरात्मनो द्विजादस्मादागतोऽसावुपद्रवः ॥ २०७ ॥ तदस्या विपदः सौम्याः प्रतीकाराय धावत । महात्मखपि निखिशं पिशुनाना हि मानसम् ॥ २०८ ॥ इत्युदीर्य मुनौ तस्मिन्स्वस्थानमुपजग्मुषि । सौष्ठवाज्येष्ठमवढद्दापाणिर्सकोदरः॥२०९ ॥ एतु कृत्याद्भुतं द्रष्टुमहमस्मि समुत्सुकः । चूर्णयिष्यामि कणशस्ता क्षुद्रा गदयानया ॥ २१०॥ ५०