पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

का नाम पामरेणांस्तु संगतिर्मतिशालिनः । तमस्काण्डेन चण्डांशोः सौहार्दं हन्त कीदृशम् ॥ २३० ॥ कलयामि न कालुष्यं दुर्वाक्यैरिमकैस्तव । किमारवैः शृगालानामिभारिः क्षुभ्यति कचित् ।। २३१ ॥ एनमह्नाय गृह्णामि पश्यतस्ते निजं शरम् । अस्ति दोर्दण्डयोः शक्तिर्यस्यासौ मां निषेधतु ॥ २३२ ।। न नरेन्द्रो न देवेन्द्रः खेचरेन्द्रोऽपि नो पुरः । त्वय्यप्यधिज्यतां बिभ्रत्त्रपते हन्त मे धनुः ॥ २३३ ॥ अथाह शबरखामी सौम्य मिथ्या प्रगल्भसे । फणिनः किं फणाटोपः कुर्यात्खगपतेः पुरः ॥ २३४ ।। तत्तिष्ठ सौष्ठवमिदं मा त्याक्षीमयि योद्धरि । इति जल्पन्ननल्पोजाः संदधे शवरः शरम् ॥ २३५ ।। चल्गितं फाल्गुनोऽप्यस्य पश्यन्वाणासने शनैः । रोपमारोपयांचक्रे किरिशोणितशोणितम् ॥ २३६ ॥ अखर्वमौर्वीटकारः साहंकारस्तयोस्ततः । विडम्बितयुगावर्तः प्रावर्तत रणो महान् ॥ २३७ ॥ मिषादिसादिभीमेन निःसीमेन समेयुषा । तदा गजाश्ववृन्देन पुलिन्दः पर्यवार्यत ॥ २३८ ॥ यावत्प्रतिभटं वाणान्मुश्चता सव्यसाचिना। तस्य क्षणादनीकस्य ददृशे कान्दिशीकता ॥ २३९ ॥ पार्थबाणाङ्किताः सैन्या व्यावर्तन्ते स्म सैनिकाः । तदासौ दर्शयामास युद्धकौशलमात्मनः ।। २४० ॥ तदानीं द्रष्टुकामानां विमानैव्योमचारिणाम् । व्योमाभोगतडागोऽभूत्संकुलः कमलैरिव ॥ २४१॥ वारंवारमजायन्त तेनार्धपथखण्डिताः । पत्रिणः श्वेतवाहस्य निःखस्येव मनोरथाः ॥ २४२॥