पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

सदाचारसमीचीना भिक्षा माधुकरी वरम् । अतिचार्व्यऽप्यनाचारदूताहूता न तु श्रियः ॥ २१७ ॥ तन्मामकीनमारण्यपशुशोणितपायिनम् । विषदिग्धशिखं नैनं विशिखं हर्तुमर्हसि ।। २१८॥ मयासौ कुरुचन्द्रस्य तव द्रोहसमीया । वराहराहुरागच्छन्बुधेनैव निवारितः ॥ २१९ ।। सतः खच्छन्दमाच्छिन्दनबाणरत्नमिदं मम । हन्त प्रत्युपकारार्थमित्थं प्रक्रमसे किमु ॥ २२० ॥ रिपुव्यापादनपणक्रीतं मित्रं भविष्यसि । इत्याशा मम दूरेऽस्तु प्रत्यर्थी प्रत्युताभवः ॥ २२१ ।। अमुना संचरन्ते चेहर्मना त्यादृशा अपि । पथिकस्तत्पथि न्याय्ये को नाम भविता वद ॥ २२२॥ अथासि त्वममुं दिव्यं पृषत्कमभिलाषुकः । तन्मैत्रीसुखसाकाई तरिक प्रार्थयसे न माम् ॥ २२३ ॥ अर्थिनां प्रार्थनाभङ्गं विधातुं नास्मि शिक्षितः । पुण्यप्रागल्भ्यलभ्यो हि त्वादृशः प्रणयी यतः ॥ २२४ ॥ यस्ते मुक्तापरापेक्षमिषोरेष इह ग्रहः । न ते स मामनिर्जित्य निर्वाहमवगाहते ॥ २२५॥ इति व्याहृत्य विरतं तं बीभत्सुरभाषत । उदीरितमिदं सर्वमसत्यं सत्यवत्त्वया ॥ २२६ ॥ खबाणग्रहणे केयमुपालम्भपरम्परा । लुम्पन्ति हन्त मर्यादां दुर्जनाः सुजनेष्वपि ॥ २२७ ॥ दुर्जनः कालकूटश्च ज्ञातमेतौ सहोदरौ । अग्रजन्मानुजन्मा वा न विघ्नः कतरोऽनयोः ।। २२८ ॥ मां चौरंकारमाक्रोशन्क्रूरचेता मुहुर्मुहुः । भवितासि कथं मित्रममित्रः प्रकटोऽसि यः ॥ २२९ ।।