पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५० काव्यमाला।

जिनवेश्मान्तिकेऽध्यास्य पावनीमवनी कचित् ।' स परावर्तयामास विद्योपनिषदं निजाम् ॥ २०४ ॥ प्रादुर्बभूवुर्भूयोऽपि पुरतस्तस्य देवताः । किं कुर्म इत्यजल्पंश्च को न भक्ते वशंवदः ।। २०५ ॥ स्मृतामिः संनिधातव्यं भवतीभिर्द्धतं मम । आहतो वः स्मरिष्यामि मन्थने परिपन्थिनाम् ।। २०६ ॥ इति विज्ञाप्य सत्कृत्य सर्वा विद्याधिदेवताः। उपकारोत्सुकाः कामं विससर्ज धनंजयः॥ २०७ ॥(युग्मम्) गतासु तासु पार्थोऽपि शैललक्ष्मीदिक्षया । नन्दनोद्यानसधीचि विजहार वने वने ॥ २०८ ॥ बाणमिन्नवपुः कश्चिद्यमसैरिभसंनिभः । निःशूकः शूकरस्तेन दृष्टः संमुखमापतत्(न्) ॥२०९ ॥ क्रुधासौ ध्रुवमभ्येति नृशंसो मजिघांसया । एवं विमृश्य सोऽधिज्यं धनुष्मान्धनुरादधे ॥ २१० ॥ पार्थेन पोत्रिणः प्राणमार्गणोत्क्षेपिमार्गणाः। दत्त्वा प्राणांस्तिरश्चापि तेन सोऽथ कृतार्थितः ।। २११ ।। आगतः शूकराभ्यणे बाणग्रहणहेतवे । आयान्तं रौद्रमद्राक्षीकिरातं कंचिदर्जुनः ॥ २१२ ॥ सगुणं धारयन्धन्व यमभ्रूभङ्गभङ्गुरम् । शरांश्च पंचषापाणौ सोऽप्युपक्रोडमाययौ ॥ २१३ ॥ पार्थोऽथ पश्यतस्तस्य खर्णपुङ्खमनोरमम् । आददानो निजं बाणं बभाषे तेन सौष्ठवात् ॥ २१४ ॥ सौम्य वीक्षे तवाचारमाकारव्यभिचारिणम् । कान्यथा पुण्यमूर्तिस्त्वं क च स्तैन्यममूदृशाम् ।। २१५ ॥ वरं तृणमिव प्राणांस्त्यजन्त्युज्वलबुद्धयः । न पुनर्जातु कर्मेहगाद्रियन्ते मलीमसम् ॥ २१६ ॥