पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विदित्वाथ समीपस्थमिन्द्रकीलं नगोत्तमम् सव्यसाची महीभर्तुर्दर्शयामास विस्मितः ।। १९१॥ देव यन्नितरामिन्द्रः क्रीडत्यत्र शचीसखः । इन्द्रकील इति ख्यातिं ततः प्रापदसौ गिरिः॥ १९२ ॥ खेचरैर्व्योमगैरेव खिन्नैश्छाया महीरुहाम् । अत्राघोगामितिग्मांशौ सेव्यन्ते सान्द्रशीतलाः ॥ १९३ ॥ वीक्ष्य, स्वप्रतिमामन्यस्त्रीशङ्काकुपिताः प्रिये । सुरीः प्रसादयत्यब्जवायुर्यत्राम्वुकेलिषु ॥ १९४ ॥ असाधुसाधुपुत्राभ्यां पितेवासौ दिवानिशम् । सूर्यकान्तेन्दुकान्ताभ्यां तापशैत्यं च लभ्यते ॥ १९५ ॥ मध्येमणितटीकोडं परिभ्राम्यन्नभोमणिः । नित्यं । कन्दलयत्यस्मिन्किनरीणां मणिभ्रमम् ॥ १९६ ।। तदस्मिन्युष्मदादेशादुपेत्य गुरुगहरे । आराधितचरीविद्याः पुनरावर्तयाम्यहम् ॥ १९७ ॥ इत्यापृच्छय नृपं कुन्तीं प्रणम्य विनयात्ततः । याज्ञसेनी च समाप्य ययौ तस्मिन्धनंजयः॥ १९८॥ गच्छतोऽस्य तपःसूनुरङ्गुलीयकमङ्गुलौ । तातख्यापितमाहात्म्यं बलादेव न्यवेशयत् ॥ १९९ ॥ जिष्णुमणिमयं तस्मिन्नहत्प्रासादमुत्तमम् । अद्राक्षीतर्कयन्नन्यं भूघरोपरि भूधरम् ॥ २० ॥ शशाङ्कोपलसोपानां विकचोत्पलशालिनीम् । उत्कल्लोलजलां वापी सोऽपश्यत्तस्य वामतः ।। २०१ ॥ तस्यां स्नात्वा गृहीत्वा च विकचाम्भोजसंचयम् । अर्चामानर्च तस्यान्तर्गत्वाद्यस्य जिनेशितुः ॥ २०२॥ स्तुत्वा स्तोत्रैर्जिनं जिष्णुः कृतवानष्टमं तपः । तपो हि विहितं तीर्थे भवेदिष्टार्थसिद्धये ॥ २०३ ॥