पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ३४७

यदि नाम वनक्लेशो लेशतोऽप्यस्ति नात्मनः । किं दुनोति न ते चेतो वन्धुदत्तापदोऽप्यसौ ॥ १६५ ॥ सूक्ष्मक्षौमोचिता येऽमी बन्धवस्तव भूधव । वल्कलानि वसानांस्तान्किमु पश्यन्न लज्जसे ॥ १६६ ॥ भ्रातरः सिन्धुरारोहकेलिदुर्ललिता हि ते । चरन्तः पादचारेण त्वां व्यथन्ते न ते किमु ॥ १६७ ॥ वनेऽस्मिन्क्लिश्यते नेहमोहिता वो हिताय या। देवी सापि न किं कुन्ती तवोद्बोधयति क्रुधम् ॥ १६८ ॥ निश्चिन्तोऽसि किमेवं त्वमसावभ्येति ते रिपुः । उत्तिष्ठख ततः खामिन्निधेहि दृशमायुधे ।। १६९ ॥ प्रतिज्ञाभङ्गभीतोऽथ न त्वमुत्सहसे खयम् । इहायातमरिं हन्तुं भीमपाौँ तदादिश ॥ १७० ॥ अथैनां द्रौपदीवाचमिष्टामनुवदंस्तथा । भीमोऽभ्यधत्त देवास्ति तवाज्ञैव ममार्गला ॥ १७१ ।। तवादेशं वहन्मूर्ध्नि पुराहं नाहनं रिपुम् । तं जिघांसुमिहायान्तं न सहिप्येऽधुना पुनः ॥ १७२ ॥ देव प्रसादितोऽसि त्वमागतश्चेत्स दुर्मतिः । तदा मम गुरुन वं न विधेयोऽप्यहं तव ॥ १७३ ।। हस्तिनापुरसाम्राज्यगर्वपर्वतमस्तकात् । लीलयैव पराजित्य पातयिष्यामि विद्विषम् ॥ १७४ ॥ अथास्या भीमभारत्यास्तदा वाचः किरीटिनः । विवृण्वत्यस्तमेवार्थ भाष्यलीलायितं दधुः ॥ १७५ ॥ एतास्तेषां गिरः श्रुत्वा वाचमूचे युधिष्ठिरः। अभ्यधीयत युष्माभिः क्षत्रवंशोचितं वचः ।। १७६ ॥ पर ममानुरोधेन हायनानि कियन्त्यपि । बहुधापि विराध्यन्तं विपक्षं क्षन्तुमर्हथ ॥ १७७ ॥