पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

स्वप्ने भीमार्जुनौ वीक्ष्य द्रुतं जागरितो भयात् । स क्षोभं लम्भयत्येवं भृशं भानुमतीमपि ॥ १५२ ॥ इत्याकर्ण्य तपःसूनुः प्रत्युवाच प्रियंवदम् । मद्गिरा भद्र विज्ञाप्यौ तौ तातविदुरौ त्वया ॥ १५३ ॥ निखिले युष्मदादिष्टं प्रहृष्टाः प्रतिशुश्रुमः । नमस्यामश्च भक्या वः क्षोणीमिलितमौलयः ।। १५४ ॥ स्नेहादापदमस्मासु नैवाशक्तितुमर्हथ । युष्मदाशीर्भिरस्माकं रिपुर्न प्रभविष्यति ॥ १५५ ॥ कृकलासः कृतोल्लासमारूढः शिखरं वृतेः। व्युत्पश्यन्सतिरस्कार भास्करस्य करोति किम् ॥ १५६ ॥ इति धर्मसुतः प्रीतः समर्प्य प्रतिवाचिकम् । सत्कृत्य वन्यसत्कारैर्विससर्ज प्रियंवदम् ॥ १५७ ॥ धार्यं तद् धार्तराष्ट्रस्य श्रुत्वा श्रवणदुःसहम् । विहाय स्त्रैणमर्यादां जगाद द्रुपदात्मजा ॥ १५८ ॥ छद्मना मेदिनी जित्वा कृत्वा मे केशकर्षणम् । दत्त्वा कान्तारवासं च रिपु द्यापि तृप्यति ॥ १५९ ॥ एवं वनेचरानस्मान्येनागत्य जिघांसति । निर्मर्यादा यकृत्येषु मत्सरच्छुरिताशयाः ॥ १६० ॥ देवि वन्ध्येव कुन्ति त्वं न शूरप्रसवा किमु । पुत्रिणीनां त्रपाकारि कथं क्लीवप्रसूरिति ॥ १६१ ॥ अहो सुवाहवः पाण्डोः सूनबोऽभिनवौजसः । पुरतः पश्यतां येषां प्रिया केशेषु कृष्यते ॥ १६२ ॥ आर्यपुत्र तपासूनुः सत्यमेव त्वमुच्यसे । रिपोः परिभवेऽप्येवं क्षमा ते कथमन्यथा ॥ १६३ ।। निकारं कुरुवंशोऽपि संसहेत यदीदृशम् । तर्हि सा नाम निर्नाम निर्ममज्ज मनखिता ।। १६४ ॥