पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाडवचरितम् । ३१५

आदिश्य विदुरेणैवं प्रहितोऽहतं हितार्थो वः । एकचक्रां पुरीं पश्यन्क्रमेणात्र समागमम् ॥ १३९ ॥ नकुलं दन्दशूकेन हरिणं हरिणारिणा । सह क्रीडन्तमालोक्य विज्ञासिषमिहास्मि वः ॥ १४०॥ इत्युक्तवन्तमत्यन्तप्रीतस्तं पवनात्मजः। पप्रच्छ वर्तते राष्ट्र धार्तराष्ट्रः कथं कथम् ॥ १४१ ॥ स किं शास्त्यधुना धात्रीमनयेन नयेन वा। स्नेहात्तमनुरुध्यन्ते भीष्मद्रोणादयोऽपि किम् ॥ १४२ ॥ इति पृष्टो यथादृष्टं समाचष्ट प्रियंवदः । कुरुनीतिरनीतिश्च नैति राज्ञि सुयोधने ॥ १४३ ॥ पितरीवातिवात्सल्यात्प्रजाभ्युदयतत्परे । संपद्धिः कुरवस्तस्मिन्प्रशासति चकासति ॥ १४॥ पुरुषार्थाः किलकत्र निवासस्पृहयालवः । नचेत्तत्र धरित्रीशे न बाधन्ते परस्परम् ॥ १४५॥ स प्रजामृतकुल्याभिः सेचसेचमनारतम् । अनपायमुपायद्भूनादत्ते फलमुत्तमम् ॥ १४६ ॥ आकर्णितभवन्मृत्युनिराशीभूतमानसाः । भीष्माघाश्चक्रिरे तेन सर्वथात्मवशंवदाः ॥ १४७ ॥ संप्रत्यावर्जितास्तेन दानेन विनयेन च । प्राणैरपि समीहन्ते ते विधातुं तदीप्सितम् ।। १४८॥ आत्मानं मन्यते क्षोणिपट्खण्डाखण्डलोपमम् । स यद्यपि तथाप्यन्तर्भवञ्चो वहते भियम् ॥ १४९॥ अर्जुनात्तरुनानोऽपि स स्मृतार्जुनविक्रमः । भीतो मुञ्चति निश्वासान्कम्पते च मुहुर्मुहुः ॥ १५० ।। चने वृकोदरं कापि दृष्ट्वा स्मृत्वा वृकोदरम् । मृगव्यव्यावृतोऽप्याशु स खिद्यति भयातुरः॥ १५१ ॥