पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

इत्युदीर्णमनःखेदमाकलय्य सुयोधनम् । सदा दुर्नयदुर्गन्धो गान्धारीतनयोऽभ्यधात् ॥ १०॥ त्वयि देवेन्द्र शौण्डीर्यावमन्तरि निहन्तरि.। यमगेहाङ्गणा(ना)रब्धताण्डवान्विद्धि पाण्डवान् ॥ १०१॥ पाण्डवाः क्व भवान् भूमीमण्डलाखण्डलः क च । कः साम्यं बहु मन्येत खद्योतद्युतिमालिनोः ॥ १०२ ॥ यदूर्जितमुजेनेदं त्वया साम्राज्यभर्जित्तम् । शतांशेनापि तन्नासीधुधिष्टिरमहीपतेः ॥ १०३ ॥ सावलेपास्तपःसनोराज्ञां ये नानुमेनिरे । तेऽपि भूपतयो जातास्तवादेशवशंवदाः ॥ १०४॥ सन्त्येते हस्तिमल्लस्य प्रतिमल्ला इव द्विपाः ।, एते च देवदेवाश्चबान्धवाः सैन्धवाः पुरः ॥ १०५ ॥ साम्परायिकसंचारकृतार्थरथिनो रथाः । पत्तयश्चाप्युपानीतवैरिबातविपत्तयः ॥ १०६ ॥ चमूरमूदृशी विश्वे त्वहत कस्य दृश्यते । तमोपहा रवेरेव केवलं किरणावलिः ॥ १०७॥ श्रीरियं ते कृतार्थीस्यात्पश्येयुर्यदि पाण्डवाः। दृष्टामित्रैरमित्रस्य संपत्संपन्निगद्यते ॥ १०८॥ गोकुलालोकनव्याजागज द्वैतवनं वनम् । ततस्तत्र दशां शोच्यामुपेतान्पश्य पाण्डवान् ।। १०९ ।। राजा राज्यच्युतान् भोगी भोगैः काममुपागतान् । ससैन्यो निष्परीवारानकृशोऽतिकृशाङ्गकान् ॥ ११० ॥ यदा वीक्षिष्यसे तांस्ते तदा मोदिष्यते मनः ।। अन्याश्चित्रातपापाये स्युर्धान्यस्य मुखश्रियः ॥ १११ ॥ तेऽपि त्वामद्भुतश्रीकं दृष्ट्वा म्लास्यन्ति निश्चितम् । व्यथ्यन्ते पावणे चन्द्रे दृष्टे दन्ता हि दन्तिनाम् ॥ ११२ ॥