पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

कीर्तिबकवधोद्भूता खवुनीवाधुना तव । पावयन्ती भुवं देव हस्तिनापुरमभ्यगात् ॥ ८७ ॥ सख्यं सख्याः सुधायाश्च सीतापि युगपत्तया । अलम्भयदमित्राणां मित्राणां च मुखानि सा ॥ ८८ ॥ तदानीं युष्मदीयस्तैः श्रुतेरपि यशोजलैः । देवस्तं निविडं पाण्डः शोकपङ्कमपाकरोत् ॥ ८९ ।। स पाण्डुना परित्यक्तः सर्वः सुखविपर्ययः । साभिमान इवोर्वीशं दुर्योधनमशिश्रियत् ॥ ९ ॥ न प्रियाङ्के न पल्यथेन वने भवने च न । न स्थले न जले कापि रतिमालम्बते स सः ॥ ९१ ॥ अथाभ्येत्य तथावस्थं शकुनिस्तमभाषत । धराधव तव व्याधिराधिर्वा कोऽयमुत्करः ॥ ९२ ॥ येन दावानलज्वालादग्धस्थाणूपमं वपुः । वहसे सहसास्माकं ब्रूहि तं दह्यते मनः ।। ९३ ।। अथाभ्यधत्त गान्धारीतनयो दुर्नयैकभूः । सर्वसहसहायोऽस्मि त्वं मातुल ममातुलः ॥ ९४ ॥ पश्य मां विफलारम्भं कृत्वा जीवन्ति पाण्डवाः। विरोधिनि विधौ पुंसां वृथैव स्युमनोरथाः ॥ ९५॥ विपं पीयूषगण्डूषः पश्य तेषामजायत । जातुषागारदाहोऽपि पयोवाहजलप्लवः ॥ ९६ ॥ हिडम्बवककिौरवधाडम्बरडिण्डिमैः । भुर्भुवःस्वस्त्रयीरने तेषां कीर्तिः प्रनृत्यति ॥ ९७ ॥ आजन्म विद्विषो ये ते जीवन्तीत्यतिदुःसहम् । किं पुनर्जनितानन्दा नन्दन्ति प्रतिपत्तनम् ॥ ९८ ॥ धुर्यो मर्माविधामेष व्याधिर्मा बाधतेऽधिकम् । तदेतस्थागदकारः संप्रत्यप्रतिमो भव ।। ९९ ॥