पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४० काव्यमाला।

अस्पृशं समतामन्यैः शोकेनैवानुजीविभिः । भक्तिनिर्वहणे त्वमिस्तेभ्योऽहमधमाधमः ॥ ७ ॥ मन्वानास्तृणवत्प्राणान्यत्ते त्वामन्वगुस्तदा। दर्शयाम्येष वो वक्रमहं तु प्रियजीवितः ।। ७५ ॥ ततो गजपुरे गत्वा वार्ताया वः शुचा जनम् । एवं दुर्योधनं मुक्त्वा स्वसधर्माणमादधाम् ॥ ७६ ।। देवेन पाण्डुना छन्नमार्येण विदुरेण च । पृष्टोऽहं कथ्यतां भद्रं भद्रं मे तनुजन्मनाम् ॥ ७७ ।। अचीकथं यथादृष्टमिप्टेतरदहं तयोः। तावप्यशृणुता पश्चात्पूर्व मूर्छामगच्छताम् ॥ ७८ ॥ मयोपवीज्य चैतन्यं लम्बितौ तौ विलेपतुः । हा वत्साः स्थ कथं दग्धा दहनेन दुरात्मना ॥ ७२ ॥ कथं शिक्षास्मदीयाथ विस्मृता वः शुभोदया। यद्वा मतिर्विपति वेधसि प्रातिकूलिके ।। ८० ॥ विदुषा विदुरेणाथ पिता ते समबोध्यत । शोको निर्वार्यतामार्य मनो धैर्याय दीयताम् ॥ ८१ ॥ सर्वे किमधुना पूर्णाः पिशुनानां मनोरथाः । किंवा प्रियंवदो भ्रान्तः संशयोऽयं ममाशये ॥ ८२॥ दिनैः कतिपयैरेव सर्वमाविर्भविष्यति । आपदः संपदो वापि न स्युश्छन्ना महात्मनाम् ॥ ८३ ॥ विदुरस्यानया वाचा खल्पीचक्रे शुचं बहिः । बभार भूयसी देवस्तामन्तर्मनस पुनः ।। ८४ ॥ मातरः सत्यवत्याद्या व्यपद्यन्त शुचानया। न हि दावानलज्वाला सहन्ते मालतीलताः ।। ८५॥ विदुराश्वासनावात्यैर्महापद्वार्तया च वः । देवः पाण्डुरियकालमासीज्जीवन्मृतोपमः ॥ ८६ ॥