पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नेत्रयोः पात्रतां तत्र भटित्रीभूतमूर्तयः । दोष्मन्तो युष्मदाकारा नागरैर्निन्यिरे नराः ॥ १२ ॥ असौ धर्मसुतो यस्य मृतस्यापि मुखाम्बुजम् । दासीकरोति निजया पार्वणेन्दुमपि श्रिया ॥ ६३ ॥ एष स्थूलवपुर्भीमो भुजावानयमर्जुनः । बृहद्वन्धुसमीपस्थौ मुग्धौ सौम्याविमौ यमौ ।। ६४ ॥ इयं कुन्ती जगन्माता न माता भुवनत्रये तुषाराद्वितुषारांशुशुभ्रा यस्य गुणावली ॥६५॥ असौ द्राधीयसी निद्रां गता द्रुपदनन्दिनी। या प्रेयस्यपि पञ्चानामुच्यते स महासती ।। ६६ ।। इत्थं निश्चित्य निश्चित्य देव युष्मांस्तथा जनैः ।, रुद्यते स तथा सर्व रुदितं पादपैरपि ॥ ६७॥ (चतुर्भिः कलापकम्) युष्मद्गुणानुरागेण वीक्ष्य तान् ऋन्दतो भृशम् । आसीज्ज्ञातप्रवन्धस्य विकल्पो मम चेतसि ॥ ६८ ॥ कापि ते पुण्यनामानः खैरं जग्मुः सुरगया । हा दग्धाः पाण्डवा एते मुधैव विलपन्त्यमी ।। ६९ ॥ ततः कुतूहलादत्वा ते मया पञ्च वीक्षिताः । युष्मदत्यन्तसादृश्यान्मूढोऽप्यहमचिन्तयम् ॥ ७० ॥ धूमस्तोमेन नाद्राक्षुः सुरङ्गाद्वारमाकुलाः । तेनामेरिन्धनीभूताः खामिनो मम पाण्डवाः ॥ ७१ ॥ यद्वाक्यान्तरदौरात्म्यादेतत्ते तेनिरे खयम् । भवेद्धि तादृशी बुद्धिर्याशी भवितव्यता ।। ७२ ।। इति प्रत्यक्षतो जातयुष्मयापत्तिनिश्चयः । तारपूत्कारपर्याप्तरोदोरन्ध्रमरोदिषम् ।। ७३ ॥१. भटिनं शुलपकमासम्, अर्धदग्वमित्यर्थ .