पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३८ काव्यमाला।

ततो विलोकयामासुस्ते सर्वे पुरतो दिशि । क्रमादभ्यर्णमायातस्तैर्निश्चिक्ये प्रियंवदः ॥ ४९ ॥ प्रत्युद्यायाथ पार्थेन प्रदत्ताद्भुतगौरवः । भूमिपीठलुठन्मौलिः स ननाम युधिष्ठिरम् ॥ ५० ॥ निबिडोत्कण्ठमाश्लिष्टो भुजाभ्यां पृथिवीभुजा । संहदेवार्पिते नीचैरुपविष्टः स विष्टरे ॥५१॥ दृशा पीयूषवर्षिण्या सिञ्चन्भूपस्तमभ्यधात् । ! कचित्कुशलिनो वत्स तातपादाजरेणवः ॥ ५२ ॥ कचित्कल्याणवान्कल्पवात्सल्यभरमेदुरः। विदुरो नित्यमस्मासु क्षेमनिर्माणदीक्षितः ॥ ५३ ॥ क्वचिदमप्रियः सौम्य क्षेमवान्नः पितामहः । . द्रोणः कल्याणवान्कच्चिद्गुरुः पूज्यतमोत्तमः ॥ ५४ ॥ धृतराष्ट्रः सुखी कचित्पिता नः पुत्रवत्सलः । कच्चिदास्माकमातृणां ज्यायसीनामनामयम् ॥ ५५ ॥ कच्चित्पूर्णाभिलाषोऽभूद्वान्धवो नः सुयोधनः । तंत्र प्रदीपनादूर्वं किं च किं च तदाभवत् ॥ ५६ ॥ कथं च वयमत्रस्था विदांचकृमहे त्वया । एतत्खरूपमस्माकं प्रियंवद वदाद्भुतम् ॥ ५७ ॥ अथ प्रियंवदोऽवादीदेव दुःस्थेऽपि चेतसि । वर्तन्ते वपुषा तावत्सर्वे कुशलशालिनः ॥ ५८ ॥ तस्मिन्न_लिहज्वाले कराले जातवेदसि । दधन्ते पाण्डवा हा धिगित्येवं पूत्कृतं जनैः ॥ ५९ ॥ लोकः शोकाकुलः कामं तं कृशानुं कृशेतरम् । वेगाद्विध्यापयामास बाष्पद्विगुणितै लैः ॥ ६० ॥ प्रदीपनेन नानेन मम किंचन दह्यते। इत्यौदासीन्यसुस्थोऽहं न किंचिदुःखमस्पृशम् ॥ ११॥