पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ३३७

द्रौपद्या च कलत्रेण कुन्त्या मात्रा च पाण्डवाः। कृतार्थमानिनः प्रापुः सुखं राज्यश्रियोऽधिकम् ॥ ३७॥ प्रेयोभिस्तैस्तथा श्वश्र्वा मेने सानन्दमानसा । निजामप्रच्युतां राज्यसंपदं द्रुपदात्मजा ॥ ३८॥ चक्रे धर्मसुतो बन्धुसेवाहेवाकरञ्जितः । हस्तिनापुरसंवासात्प्रवासमपि तं वरम् ॥ ३९ ॥ अजस्रसेवावसरं प्राप्य पूज्ये सहोदरे । नत्वारोऽपि कनीयांसः कृतार्थ जन्म मेनिरे ॥ ४० ॥ अन्यदान्तस्तरुश्रेणि दिशत्सु किशलश्रियम् । रवेः करेषु भूपालः प्रभातस्थानमभ्यगात् ॥ ४१ ।। वेद्यां वेत्रासनस्थस्य भूपतेः पदपङ्कजम् । अङ्कमारोप्य भीमेऽथ संवाहयति भक्तिः॥ ४२ ॥ नृपान्तिकनिषण्णायाः कुन्त्या वचनवीचिषु । अर्पितश्रोत्रपात्रायां देव्या दुपदजन्मनि ।। ४३ ॥ सहदेवे महीम रातपत्रविडम्बिनीम् । खपटी विनयाधारे धारयत्येकतः स्थिते ॥ ४४ ॥ नकुले चालयत्याराच्चामरोपममञ्चलम् । नृपस्येत्यनुजोपास्विराजिन्या राज्यसंपदि ॥ ४५॥ क्षेत्रदण्डोपमं पाणौ कोदण्डं धारयन्दृढम् । आयान्तं कथयामास पान्थमेकं धनंजयः॥ ४६॥ (पञ्चभिः कुलकम्) व्यापार्याम्भोजसौन्दयो दृशं दूरे महीपतिः । उवाच रभसाद्वत्स किं नासौ स्यात्प्रियंवदः ॥ १७ ॥ अथ कृष्णा विहस्याह क नामात्र प्रियंवदः । सोऽप्यभाग्यः किमद्वति चास्माभिः करिष्यति ॥ १८ ।।१. किशलशब्दोऽपि पाठ्वार्थकः,