पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

विदित्वातिसुलभ्यानि कन्दमूलफलान्यथ । विदधुर्वसतिं तत्र कानने पाण्डुसूनवः ॥ २४॥ ते वन्येनापि वेषेण वहन्ति स्म श्रियं पराम् । त्यजन्ति मणयस्तेजस्त्रपुणोपहिता हि किम् ॥ २५ ॥ भीमो नवनवैर्वन्यैराहारैः सुमनोहरैः। लीलयैव समानीय प्रीणयामास बान्धवान् ॥ २६ ॥ दुकूलकोमलैः खेहात्सहदेवो दिवानिशम् । वल्कलोपायनैनव्यैरुपचक्रे कुटुम्बकम् ॥ २७ ॥ कृत्वा पलाशैः पालाशैरुट विकटाजिरम् । भक्तिं चक्रे कुटुम्बस्य नकुलः स कुलोचितम् ॥ २८ ॥ क्षुद्रोपद्रवकर्तृणां निधनाय धनंजयः । कुण्डलीकृतकोदण्डस्तस्थौ जाग्रदहर्निशम् ॥ २९ ॥ स्मरन्ती जिनपादानां दीने दुःस्थे दयावती । शान्त्यै सुतानां धाणि कुन्ती कर्माणि निर्ममे ॥ ३० ॥ परमेष्ठिस्मृतौ निष्ठां ग्राहितास्तनयास्तया । अनारतमजायन्त तन्मयीकृतचेतसः ॥ ३१ ॥ व्यापिप्रिये तथा कृष्णा सर्वेषु गृहकर्मसु । यथातीव तदा तेषां मेधिता गृहमेधिता ।। ३२ ॥ प्रियामेकैकशस्तेऽपि कुसुमाभरणैर्नवैः। प्रेम्णालंचक्रिरे तत्र वने सर्वर्तुशालिनि ॥ ३३ ॥ सर्वर्तुसंभवैः पुष्पैः स्वयं कान्तरलंकृता । विरेजे द्रौपदी साक्षातूनामिव देवता ॥ ३४ ॥ पुलिन्दप्राभृतैर्दृब्धं कुम्भिकुम्भोत्थमौक्तिकैः । हारं मनोहरं भीमः प्रेयसी पर्यधापयत् ॥ ३५ ॥ विनयात्तनयानां च स्नुषायाश्चातिनिस्तुषात् । सस्मार राजसौख्यानां नैव कुन्ती कदाचन ॥ ३६ ॥