पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

विपुलधृतिरनेकांस्तत्र मासान् किलैकं दिवसमिव सबन्धुर्धर्मसूनुर्निनाय ।। ७०५ ।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये जुतुगृहहिडम्बबकवधनिरूपणो नाम सप्तमः सर्गः ॥

अष्टमः सर्गः।

एकदा तु कृशां पश्यन्नन्तर्मनसमायतिम् । एकान्ते मन्त्रयामास बन्धुभिर्धर्मनन्दनः ॥ १ ॥ भीमोपज्ञवकध्वंसकीर्तिकोलाहलोदयात् । अभूम भूमावेतस्यामवश्यं विदिता वयम् ॥ २ ॥ इयं च संप्रति ख्यातिः सर्वथाप्यहितेव नः । संनिपातज्वरार्तानां हारद्वारेव हारिणी ॥ ३ ॥ जीवतो जातु जानीयादस्मान्दुर्योधनो यदि । राज्यश्रीदुर्मदः किंचिदोजायेत ध्रुवं तदा ॥ ४ ॥ तदुपक्रम्यते गन्तुमितो नक्तमलक्षितैः । यः पाडण्यप्रयोगे हि कालज्ञः स हि सर्ववित् ॥ ५ ॥ ओमिति प्रतिपेदानैः समेतस्तैयुधिष्ठिरः। सहैव कुन्तीकृष्णाभ्यां रजन्यामचलत्ततः ॥ ६ ॥ अरण्यपद्मपान्थानां तेषामेको वृकोदरः। विभावामवष्टम्भयष्टिरासीत्पदे पदे ॥ ७ ॥ स्कन्धं ममाधिरोहेति प्रार्थनायां बकद्विषः । बभौ मुखेऽङ्गुलिक्षेपः पुरो मातुः पुनः पुनः ॥ ८॥ वत्सला शुशुभे कुन्ती प्रार्थनां तामकुर्वती । अर्थी पुनः पुनर्दैन्या भीमसूः शुशुभेतमाम् ॥ ९॥ नाध्यारोहदधिस्कन्धं पुत्रक्लमभयाद्यथा । मातस्तु पादचारेण भीमस्याभूदृशं क्लमः ॥१०॥