पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

तद्गत्वा विनयीभूत्वा तान्पित्रीयितुमर्हसि । पुत्रीयिष्यन्ति तेऽपि त्वां सन्तो हि नतवत्सलाः ॥ ६९३ ॥ इति देवीसमादेशादसि युष्मानुपस्थितः । मामप्यात्मविधेयानामन्त्यं संख्यातुमर्हथ ।। ६९४ ॥ पश्यतामथ पौराणां व्याजहार वृकोदरः । आर्यपादाः प्रसन्नास्ते निवर्तख वधान्नृणाम् ॥ ६९५॥ इत्युक्तस्त्यक्तवान्सोऽथ तमधयं वधक्रमम् । अभ्यपिञ्चत साम्राज्ये पैतृके तं तपासुतः ॥ ६९६॥ इमे ते विस्फुरत्कीर्तिताण्डवाः पाण्डवा इति । ज्ञातवद्भिस्तदा पौरैयोऽपि मुमुदेतमाम् ।। ६९७ ॥ नृपतिश्चैकचक्रायाः पौराश्च तपसःसुतम् । समं विज्ञापयामासुः पुर्या पादावधार्यताम् ॥ ६९८ ॥ विन्यस्तखस्तिका कामं तोरणप्रवणापणाम् । गन्धाम्बुसिक्तसाध्वपुष्पप्रकरदन्तुराम् ॥ ६९९ ।। सबन्धुर्वन्धुरश्रीकामेकचक्रां युधिष्ठिरः । महाबलोपनीतेन विमानेन ततोऽविशत् ।। ७०० ।। (युग्मम् ) आगन्तूनामभिज्ञाभिभीमः पौरपुरंधिभिः । बद्धानुरागमङ्गुल्या सप्रमोदमदात ॥ ७०१ ॥ असौ नगरजीवातुरसौ बकनिसूदनः । जगुरेवं पुरस्तस्य बन्दिनो विरुदावलीम् ।। ७०२ ॥ एकचक्रानरेन्द्रेण विनयानम्रमूर्तिना । निजं सौधमनीयन्त तदानी पाण्डुसूनवः ॥ ७०३ ॥ वासराणि व्यतिक्रम्य पञ्चषाणि युधिष्ठिरः। पितृराज्याय सत्कृत्य विससर्ज महाबलम् ॥ ७०४ ॥ परिचरितपदाजखैरसातत्यसेवा- वसरसरभसानां नागराणां गणेन ।