पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ।

इत्युदीर्य स्वधैर्येण प्रातिष्ठासुभृशं प्रभुः । पूर्वकायेन नितरामुत्पपात पपात च ।। ६८० ॥ आक्रान्तस्यापि तेनोच्चैः स्वामिनश्चेष्टया तथा । रक्षोलोकेऽपि शोकेऽपि हास्यमास्ये समुद्ययौ ॥ ६८१ ।। सोऽभ्यधान्नः प्रभु भूयस्तदरे स्मर दैवतम् । महामांसाशिनां क्वापि नहि कल्याणसंपदः ॥ ६८२ ॥ इति व्याहृत्य तेनाथो नाथोऽस्माकमनाथवत् । मूर्द्धानं मुष्टिना भित्त्वा प्राप्यतैकोऽपि पञ्चताम् ॥ ६८३ ॥ विद्याविदितवृत्तान्तः सुमायश्च तदैव सः। विहङ्गराजवेगेन व्यावृत्त्येह समाययौ ॥ ६८४ ॥ श्रुत्वेति विक्रमस्फारः कुमारोऽसौ महाबलः । निहन्तुं तात हन्तारं खीचने सांयुगीनताम् ॥ ६८५ ॥ शक्तेस्मिन्नोचितं युद्धं तद्भत्याभ्यर्च्य पृच्छयताम् । कुलविद्येति संबोध्य रुद्धः संवर्मयन्मया ॥ ६८६ ॥ एकतानेन सानेन देवी सम्यगुपासिता । यदादिदेश तदसौ खयमावेदयिष्यति ॥ ६८७ ॥ महाबलस्ततोऽवोचन्मदुपास्तिवशंवदा । देवी मामादिशद्वत्स रु त्यज शमं त्यज ।। ६८८ ॥ गत्वा सान्त्वय सद्भावतत्परः पुरुषानसून् । एते हि निहितानीतिप्रपञ्चाः पञ्च पाण्डवाः ॥ ६८९ ।। मया पुरापि ते तात समादिष्टो भृशं यथा । प्रतीपः पाण्डवेयानां मा स भूर्वत्स जातुचित् ॥ ६९० ॥ भत्त्यानुकूलिता येते कामदाः कल्पपादपाः । भवेयुः प्रतिकूलास्तु विषमा विषपादपाः ॥ ६९१ ॥ महामांसनिषेधं चेत्वत्तातः प्रत्यपत्स्यत । नाहनिष्यत्तदावश्यमेनं मध्यमपाण्डवः ॥ ६९२ ।। १. भजेत्युचित प्रतिभाति.