पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् ।

अथ खबाहुपाशेन मोटयित्वा शिरोधराम् । तमधो न्यस्य नः खामी समारोहदुर स्थलम् ॥ ६६७ ।। लब्धविक्रमपाकेन बकेनाक्रम्य वक्षसि । निरुच्छासां दशां नीतः प्रमीत इव सोऽभवत् ॥ ६६८ ॥ प्रावर्तत ततो मङ्गु रक्षःकिलकिलारवः । पुनरासादितोल्लासैः पुष्पितं मे मनोरथैः ।। ६६९ ॥ तत्र कृत्रिमदण्डेन सुमायेन प्रपञ्चिते । अत्र नः खामिनश्चैवं विस्फूर्जति पराक्रमे ॥ ६७० ॥ कुलं लङ्कापते त्रमित्युत्सेकपरे मयि । तृणं त्रिलोकीमप्येतां मन्यमाने च नः प्रभौ ॥ ६७१ ॥ तेन छद्मप्रमीतेन परिवर्तनलाघवम् । तच्चक्रे ददृशे येनौतराधर्यविपर्ययः॥६७२ ॥ (त्रिभिर्विशेषकम्) बकवक्षःस्थलारूढः स(यौ)रूढभुजविक्रमः । मुष्टिमुद्गरमुद्यम्य नीतिमानिदमभ्यधात् ॥ ६७३ ।। खयं दोष्मन्पदे विद्धः कण्टकेनापि दूयसे । प्राणानपि परेषां नु नित्यं हरसि लीलया ॥ ६७४ ।। अमार कारयांचने लकेशः परमार्हतः । कुलं तस्य किमेतेन कलङ्कयसि कर्मणा ॥ ६७५ ।। इदानीमपि दुष्कर्म दूरान्मुञ्चसि चेदिदम् । तद्भयं त्वभयं तुभ्यं नष्टं नाद्यापि किंचन ।। ६७६ ।। तस्य तेनातिसान्नापि प्रभुरभ्यधिकक्रुधा। जाज्वल्यते स तत्प्राज्यमिव चन्दनबिन्दुना ।। ६७७ ॥ अभ्यधाच किमाचार्य इव वाचाल जल्पसि । एता वाचो न मे किंचिच्चरन्ति श्रवणान्तिके ।। ६७८ ॥ क्षुधातः कल्यवतै त्वां विधाय विधिनाधुना । सर्वासामपि दास्यामि त्वद्वाचामुत्तरं ततः ॥ ६७९ ॥