पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

जज्ञेतमा तमालोक्य स्वामिनो नो मनोरथैः । यथाचिरात्कुटुम्बस्य भवत्वद्याशितंभवः ॥ ६५४ ॥ स्वाम्यादेशात्ततः शैले समानीतं कथंचन । वीक्ष्य(क्ष)माणैरमुं रात्रिंचरैश्चित्रीयितं चिरात् ॥ ६५५ ॥ सूर्यहासमसिं कृष्ट्वा प्रजिहीर्षुः प्रहर्षतः । तेनाथ भूतलोत्थायमभ्यधीयत नः प्रभुः ॥ ६५६ ॥ रे रे निस्त्रप निस्त्रिंश दुराचार निशाचर । निर्मन्तुजन्तुविध्वंसपापप्राग्भारपङ्किल ॥ ६५७ ॥ भवस्येष कथाशेषस्त्वमिदानीमसंशयम् । परं प्रहर रे पूर्वं हन्तुं प्राग्नास्मि शिक्षितः ॥ ६५८ ॥ इत्थमुत्तेजितस्तेजःशालिनामग्रतःश(स)रः । नक्तंचरमहेन्द्रस्तं हतवांस्तरवारिणा ॥ ६५९ ।। तत्राथ वज्रजेत्राङ्गे प्रयुक्तमधिपेन नः । क्षणेन मण्डला तज्जगाम शतखण्डताम् ॥ ६६० ॥ सोऽधावन्मुष्टिना हन्तुं नक्तंचरपति ततः। पर्वतोच्चसरः क्रूरवाणमिव केशवः ॥ ६६१ ॥ मुष्टिना ताडितस्तेन धृतदम्भोलिकेलिना । पपात भुवि नः खामी सपक्ष इव भूधरः ।। ६६२ ।। ततः कुमार ते ताते जाते मूर्छाविसंष्ठुले । रक्षोभिर्विरलैर्जातं हन्त सैन्यमनायकम् ॥ ६६३ ॥ तथाप्येतस्य कूटेन कुटुम्बं संहराम्यहम् । विमृश्येति प्राहिणवं सुमायं नाम राक्षसम् ॥ ६६४ ॥ शिक्षां मम समादाय गते तस्मिन्स्वसिद्धये । मूर्च्छां शीतोपचारेण स्वामिनः प्रापयं क्षयम् ।। ६६५ ।। घट्टितस्य तथा तेन करीषाग्नेरिवाधिकम् । धगद्धगिति जज्वाल तेजस्तेजस्विनः प्रभोः ।। ६६६ ॥