पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ३२९

इदानीं तु समानीते बके कीनाशदासताम् । संजातोऽस्य शरण्यानां प्रजानामभयप्रदः।। ६४१ ।। अतः परं प्रजाः सन्तु पुत्रेभ्यः स्पृहयालवः । लभन्तां कुलदेव्यश्च पुत्रार्थमुपयाचितम् ॥ ६४२ ।। जनन्योऽनुपमस्नेहाः पालयन्तु तनूरुहान् । चिराय चिरवस्यन्तु सवित्रीः स्वाः सुता अपि ॥ ६४३ ॥ एतत्तु कथ्यतां सौम्य कतमस्ते स बान्धवः । इन्द्रेण पाकवचक्रे वको येन यमातिथिः ।। ६४४ ।। ततो धर्मात्मजस्तस्मै कथयामास लीलया । बन्धुः सैष कनीयान्मे संहर्ता सकलापदाम् ।। ६४५ ॥ तदुपश्रुत्य सर्वेषामेकचक्रानिवासिनाम् । मुग्धाः स्निग्धाः सुधासान्द्रा विकसत्पक्ष्मसंपुटाः ।। ६४६ ॥ निमेषविमुखाः क्रोडीकृतानन्दाश्रुबिन्दवः । जीवितव्यप्रदे भीमे निपेतुर्युगपदृशः ॥ ६४७ ।। (युग्मम् ) अथ पप्रच्छ निःशोको लोको बकनिसूदनम् । कथ्यतां प्रथयांचक्रे कथं बकवधस्त्वया ॥ ६४८ ॥ इमामुदाहरिष्यामि कथां कथमिवात्मनः। इति तूष्णी स्थिते भीमे जने वावहितेऽधिकम् ॥ ६४९ ॥ अवतीर्य नभःकोडात्पुरतः पाण्डुजन्मनाम् । उभौ युवा च वृद्धश्च पुरुषावेत्य तस्थतुः ।। ६५० ॥ (युग्मम्) तयोरुवाच वर्षीयान्विस्मितं धर्मनन्दनम् । बकराक्षसराजस्य दुर्बुद्धिः सचिवोऽस्म्यहम् ।। ६५१॥ . अयं महाबलो नाम धाम धाम्नां तदात्मजः। निजान्वयपुरीं लङ्कां समयेऽस्मिन्गतोऽभवत् ॥ ६५२ ।। व्यावृत्तस्त्वधुनापृच्छत्केनेत्थं मे पिता हतः । मयाख्यायि महाकायः कोऽप्यद्यागात्पुमान्वलिः ॥ ६५३ ॥