पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२६ काव्यमाला।

अनवद्यैर्महावाद्यैः शङ्खाद्यैर्मेदुरीकृतः। तस्याथ दुन्दुभिध्वानः कर्णजाहमगाहत ॥ १२८ ॥ ज्ञातप्रबन्धमायान्तमेकचक्रानरेश्वरम् । सोऽपश्यदन्वितं पौरैर्नामङ्गल्यपाणिभिः ॥ ६२९ ।। पार्थदत्तासनासीनस्तपःसूनुपदान्तिके । वेगादागत्य विनयी निषसाद वृकोदरः ॥ ६३०॥ अकृत्रिमत्रपारङ्गन्नीरजी सुभगाकृतिः । श्वश्रूपाधै समेयाय द्रुतं द्रुपदनन्दिनी ॥ ६३१ ॥ चक्रवत्येकचक्रायाः समेत्याथ युधिष्ठरम् । वर्धयामास माङ्गल्यैरझे रोमाङ्करं वहन् ।। ६३२ ।। अहंप्रथमिकाः पूर्व सर्वेऽपि नगरीजनाः। ज्यायसः पाण्डवेयस्य मङ्गलानि वितेनिरे ।। ६३३ ।। असत्कुटुम्बजीवातो जीव त्वं जीवितेन नः । इत्याशास्य पुरीवृद्धा भ्रमयामासुरञ्चलम् ॥ ६३४ ॥ विहिताद्भुतशृङ्गाराः शृङ्गारास्तस्य नायकाः (१) । तत्र नृत्यं स्त्रियः काश्चियधुः कुलवधूचितम् ॥ ६३५ ।। हल्लीसकप्रबन्धेन वीररत्नप्रसूरिति । अमन्दानन्दसंदोहाः कुन्ती काश्चिजगुर्मुहुः ॥ ६३६ ।। नूतनोलूलकल्लोलैनिःसीम भीमविक्रमम् । काश्चिकवधाधानमनोहरमुदाहरन् ॥ ६३७ ।। इत्थं मनसि काये वा न पौराणां ममुर्मुदः । प्रीत्यै शुभोदयोऽन्योऽपि किं पुनर्जीवितागमः ॥ ६३८ ॥ बद्धाञ्जलिरथोवाच भूपतिस्तपसःसुतम् । एकचक्राप्रजाप्राणसत्रिन्कल्याणमस्तु ते ॥ ६३९ ।। यतः प्रभृति कल्याणिन्नुपागान्नगरीमिमाम् । ततः प्रभृति पौराणामभूदभ्युदयो महान् ॥ ६४० ॥